This page has not been fully proofread.

[१५३]
 
महानाटकम् ।
 
तद्दियोगसमुत्थेन तच्चिन्ताविपुलार्चिषा ।
 
रात्रिन्दिवं शरीरं मे दह्यते मदनाग्निना ॥ ३० ॥
वायुर्दक्षिणतो, वनानि (शिखो च) पुरतो, भृगध्व निर्वामतः,
पथाहु:सह चक्रवाकचरि ( रुदि) तं चोर्ड सुधादोधितिः ।
इत्थं दु सहपञ्चतापसहिते मध्ये मया ध्यायता,
नेष्यन्ते कति वा प्रजागरभरैरत्यन्तदीर्घाः क्षपाः ॥ ३१ ॥
 
मामपि स्पृश ।
अनया कान्तया अन्य, श्रवान्य शब्दयोगे
तृतीया कवेर्निरङ्कुशत्वात् सोढव्या । कः कोऽपोत्यर्थः, मौन
रक्षेत् रक्षित शक्नुयात्। एतेन तत्स्पृष्टवातेन जोवितुं शक्यं
कथमपि जीवनं धर्त्त पारयितव्यं, मयेति शेषः । अनुष्टुप्
बृत्तम् ॥ २८ ॥
 
चडियोगेति तस्या वियोग. विरह. तस्मात् मुमुत्तिष्ठ
नीति तद्वियोगसमुत्य' तेन तस्याश्चिन्ता एव विमुलाः प्रचुरा,
धर्चिपो यस्य तेन मदनाग्निना कामानलेन मे मम शरीरं
रानिन्दिवम् अहोरात दह्यते । रूपकालङ्कारः । अनुष्टुप्
वृत्तम् ॥ ३० ॥
 
वायुरिति ।
 
दक्षिणत दक्षिणस्या दिश दक्षिणस्या
दिशि वा वायु मलयपवन इत्यर्थः, वहतोति शेष, पुरतः
अग्रतः, अग्रे इत्यर्थ, वनानि काननानि, वर्त्तन्ते इति शेष, शिखो
चेति पाठे शिखी मयूरथेत्यर्थः । वामत वासभागे भृङ्गाणा
ध्वनि भ्रमरविरुतम् । पश्चात् पृष्ठभागे दु.सहं मोठमशक्य-
मित्यर्थ, चक्रवाकाप्पा चरितं युगलभावस्य विच्छेद इत्यर्थः,
रुदितमिति पाठे रुदितम् अन्योऽन्यस्य वियोगे करुणविरुत-
मित्यर्थ । अव उपरि च सुधादोधितिः चन्द्रः । इत्यम्