This page has not been fully proofread.

[१५० ]
 
महानाटकम् ।
 
के यूयं रघुनाथ ! नाथ। क्रिमिदं भृत्योऽस्मि ते लक्ष्मणः,
कोऽहं वत्स ! वदाश, देव ! भगवानार्थी भवान् राघवः ।
किं कुर्मो विजने वने, तत इतो देवी समन्विप्यते,
 
का देवीं, जनकाधिराजतनया हा हा प्रिये ! जानकि ! ॥ २५ ॥
हारो नारोपितः कण्ठे मया विच्छेदभोरुग्णा।
इदानीमावयोर्मध्ये सरित्सागरभूधराः ॥ २६ ॥
 
के यूयमिति । यूयं के ? इति रामोति । हे रघुनाथ ।
हे नाथ ! इदं किम् ? अस्मोति अहमित्यर्थे अव्ययम्, अस्मि
अहं ते तव भृत्यः किङ्करः लक्ष्मण: । इति लक्ष्मणोति । हे
वत्स ! अहं कः ? प्राश शीघ्रं वद ब्रूहि । रामोक्तिः । देव!
भवान् भगवान् सर्वशक्तिमान् आर्थः राघवः । लक्ष्मणोक्तिः ।
विजने वने किं कुर्म: ? इति रामोक्तिः । तत- इतः समन्ता-
दिव्यर्थः, देवी सीता समन्विष्यते समनुसन्धीयते । लक्ष्मयोक्तिः ।
देवो का ? जनकाधिराजतनया । प्रिये जानकि ! हा हा
किमिदमापतितमिति भावः । रघुनाथेत्यत्न वद नाथ इति, भृत्य
इत्यव दास इति वदाशु देव इत्यत्र स आर्य एवेति,
भवानित्यव स क इति च पाठान्तरं सुगमम् ॥ २५ ॥
 
हार इति । विच्छेदमीरुणा मया, विशेषभोरुऐति पाठान्तरं,
कण्ठे हारः न आरोपितः न निहितः, इदानीम् आवयोः सीता-
रामयोः मध्ये सरित्सागरभूधराः नदीसमुद्रपर्वताः, वर्त्तन्ते इति
शेषः । स्वल्पस्य विश्लेषस्य शान्तये कट हारार्पणं महवस्तु
एतादृशस्य शान्तये कमुपायं करिष्यामीति भावः । आवयोर्मध्ये
सरित्सागरभूधरा इत्यत्र अन्तरे जाताः पर्वताः सरितो द्रुमा इति
 
पाठान्तरम । अनुष्टप व्रत्तम ॥ २४