This page has not been fully proofread.

[१४८]
 
महानाटकम् ।
 
लक्ष्मणः । नाहं जानामि केयूरे नाहं जानामि कङ्कणे ।
नूपुरे चाभिजानामि नित्यं पादाभिवन्दनात् ॥ २१ ॥
कियहूरं गत्वा पतितं सोतोत्तरोयं दृष्ट्वा रामः ।
द्यूते पण: प्रणयकेलिपु कण्ठपाशः,
क्रीड़ापरिश्रमहरं व्यजनं रवान्ते ।
भय्या निशोथकलहे हरिणेचषायाः
प्राप्तं मया विधिवमादिदमुत्तरीयम् ॥ २२ ॥
ततश्चन्द्रं दृष्ट्वा रामलक्ष्मणयोरुक्तिप्रत्युक्ती ।
सौमिवे ! ननु सेव्यतां तरुतलं, चण्डांशुरुज्जम्भते,
चण्डांशोर्निशि का कथा, रघुपते ! चन्द्रोऽयमुम्मोलति ।
 
नाहमिति । ॠई केयूरे भङ्गदे न जानामि अहं कङ्कणे
चन जानामि, नित्यं प्रतिदिनं पादयोरभिवन्दनात् प्रणि
पातात् नूपुरे च नूपुर एवं भभिजानामि । अनुष्टुप् वृत्तम् ॥ २१॥
 
द्यूते इति । मया द्यूते पण: पणनं, पराजयलभ्यं वस्त्विति
भावः, प्रषयकेलिपु प्रेमक्रीड़ास, प्रणयमन्यु ध्विति पाठे प्रणय-
कोपेष्वित्यर्थः, कण्ठपाशः कण्ठबन्धनरज्जु, रवान्ते सुरतावसाने
कीड़या विहारेण यः परियमः तस्य हरतोति हरे, पचाद्यच्
प्रत्ययः, वोन्यतेऽनेनेति व्यजनं मिशोषकलहे शय्या, निशोयसमये
इति पाठान्तरं, हरिणेचणाया: सोतायाः, जनकात्मजाया इति
पाठान्तरम्, इदम् उत्तरीयम् उत्तरासङ्गवमनं विधिवशात्
भाग्यवशात् प्राप्तं लब्धम् । वसन्ततिलकं वृत्तम् ॥ २२ ॥
 
सौमि इति । हे सौमित्र ! लक्ष्मण । ननु भो तकतलं
मेव्यताम् आश्रीयतां यतः श्रयं चण्डांश: उप्पर रिमः सूर्य्य:
 
++