This page has not been fully proofread.

प्रथमोऽड: ।
 
[२५]
 
श्रीरामे लज्जां कुर्वति सोताया उत्साह वर्धयन् लक्ष्मण: ।
देव (वीर) श्रोरघुनाथ ! किं बहुतया १ दासोऽस्मि ते लक्ष्मणः,
मेर्वादोनपि भूधराम गणये जोर्ण: पिनाक: कियान् ? ।
तन्मामादिश वोर ! पश्य भवतो वाक्यादहं कौतुकी,
प्रोडर्त्तु प्रचनायितु नमयितुं भङ्क्त सदैनत् नमः ॥ ३८॥
 
सायकलेवर: कोमलाङ्ग इत्यर्थः, नेदमनेन भेत्तु शक्यते इति
भाव: । अनेन मधुरमूर्त्तिना रघुनन्दनेन इदं धनुः कथं केन
प्रकारेण अधिज्यम् अधिरोधितगुणं विधीयता क्रियताम् ?
न कथमपि अधिज्यं विधातुं सम्भाव्यते इति भाव, सम्भावनायां
लोट् । !
अहहेति खेदे, हे तात ! पित. तव पण. शुल्क
दारुण: अप्रतिविधेय इति भावः; यहा तातपणः इत्येकं पदं,
तातस्य पण: यो मे धनुरधिन्यं करिष्यति तस्मै सोता दास्या-
मोत्येवरूपः स्तवें स्तुत्यां, संकोर्त्तनेऽपोत्यर्थः, "म्तवः स्तोत्रं स्तुति-
नुतिः" इत्यमरः । दारुण: भीषणः, तव पणश्वेन्नाभविष्यत्तदाई
रामं पतिं माप्सरामि इति भावः । द्रुतविलम्वितं कृतं -
"द्रुतविलम्बितमाह नभौ, भरौ" इति लचणात् ॥ ३७॥
 
{?
 
देवेति । हे देव श्रीरघुनाथ! वीरति पाठान्तर हे वोर
श्रीरघुनाथ ! बहुतया बाहुल्येन, विस्तार कयनेनेति भावः, किम्
न किमपि प्रयोजनमस्तोत्यर्थः, अस्मीत्यहमित्यर्येऽव्ययम्, अस्मि
अहं लक्ष्मणः ते तब दासः मेर्वादोन सुमेरु प्रभृतीन् अपि
भूधरान् पर्वतान् न गणये न लक्षवे, दुर्धरत्वेनेति भावः । जोर्णः
पुरातनः पिनाकोऽजगवम् ऐखरं धनुरित्यर्यः, "पिनाकोऽजगवं
धनु: " इत्यमरः । कियान् ? अतितुच्छ इति भाव । हे वीर !
तस्मात् माम् आदिश प्राज्ञापय, पश्य अवलोकय, अहं
 
]]