This page has not been fully proofread.

चतुर्थोऽद्ध: ।
 
पृच्छामि ते पवनभोजन ! तुङ्गभोग !
 
मार्गे स्थिता सपदि चन्द्रमुखी न हटा ? ॥ १५ ॥
सा रेवातटिनो तदेव विपिनं सैपा निकुञस्थलो
सोऽयं भूमिधरः स एव मन्नयोहूतमन्दानिलः ।
तान्येतानि सरांसि हन्त ! विमलान्युचुङ्गवचोरुह-
इन्दापोड़नभारमन्दगमना नाऽऽलोक्यते जानको ४१६ ०
रामः । आदावेव कृशोदरी कुचतटोभारेण नम्रा पुन-
र्लोलाचद्रुमणञ्च नैव सहसे दोलाविधौ वाम्यसि ।
 
[१४५]
 
तहत् गोभितं नेत्रयुग्मं यस्य तथोक्तः तत्सम्बुरौ, पवन-
भोजन ! वायुभोजिन् ! तुगभोग ! महाकाय ! भुजङ्ग ! सर्प !
८ ते तव,
कर्मणिपठो, त्वामित्वर्यः पृच्छामि मार्गे पयि स्थिता
चन्द्रमुखो सोता सपदि सम्प्रति न दृष्टा १ । वसन्ततिलकं
वृत्तम् ॥ १५ ॥
 
>
 
सेति । सा रेवा नम्मंदा नाम तटिनी सरित्, तदेव विपिन
वनं, मा एपा निकुञस्थली लतादिप्रिहितविहारभूमिः सः
अयं भूमिधरः पर्वतः स एव मलयात् चन्दनगिरेः प्रोद्भूतः
निसृतः मन्दः मृदुवाहीत्यर्थः, अनिलः वायुः, तानि एतानि
विमलानि निर्मलानि सरांसि सरोवराः, उत्तुङ्गेन समुद्यतेन
बचोरुहद्दन्दन पयोधरयुगलेन यत् भापोड़नम् आक्रमणं तस्य
भारेय प्रातिशय्येन मन्दं मन्यरं गमनं यस्याः तथाविधा
जानकी न आलोक्यते न दृश्यते जानक्या: सर्वाण्येव विनोद-
स्थानानि दृश्यन्ते परं सैव न दृश्यते इति खेदसूचकं इन्तेति
पदमे । शार्दूलविक्रीडितं वृत्तम् ॥ १६ ॥
 
प्रादाविति । आदावेय पूर्वमेव छगोदरी तथा कुचतटोभारेष