This page has not been fully proofread.

[१३५]
 
महानाटकम् ।
अथ पथि रामलक्ष्मणयोरुक्तिप्रत्युक्ती ।
एका किनोमुटजसोम्नि विहाय सोतां
किं वत्स ! मत्सविधमाकुलमागतोऽसि ? ।
अत्रागते चिरयति त्वयि वीर! देव्या
नैव स्थितः कटुकदुक्तिकदर्थितोऽहम् ॥ ८१ ॥
बाणेनैकेनाद्भुतं तं निहत्य मारोचाख्यं यातुधानं जवेन ।
- सोताशून्यां पश्यतः पर्णशालां किं किं वृत्तं नो तदा राघवस्य ॥८२ ॥
मायाकुरङ्गं विनिहत्य बाणैर्माता समागत्य च पर्णशालाम् ।
कोणत्रयं तव समोच्य शून्यं द्रष्टुं चतुर्थं न शशाक रामः ॥ ८३ ॥
 
एकाकिनोमिति । हे वत्स ! लक्ष्मण । उटजसोम्नि पर्ण
शालाप्रदेशे एकाकिनीम् असहायां सीतां विहाय परित्यज्य
किं कथम् आकुलं यथा तथा मम सविधं सकाशम् आगतः
असि ? इति रामोति' ! हे वीर ! अत्र आगते त्वघि चिर-
यति विलम्बमाने सति देव्या. सोतायाः कटुभि दारुणाभिः
कटुक्तिभिः कुत्सिताभिः उक्तिभि: कदर्थितः क्षोभितः अहं
नैव स्थितः स्थातुं न शक्त इत्यर्ट: । लक्ष्मणोक्ति । वसन्ततिलकं
 
वृत्तम ॥ ८१ ॥
 
घाणेनेति । एकेन बाणेन शरेण तम् अद्भुतं विचित्रं
मारोचाख्यं यातुधानं राजसं जवेन वेगेन निहत्य सीताशून्यां
पर्णशालां पश्यतः अवलोकयतः राघवस्य रामस्य तदा किं
किं नो वृत्तम् ? न जातम्
न जातम् ? अपि तु दु. खस्य परा काठा
शालिनी हत्तं "माती गो चेच्छालिनी
 
जातेति भावः
 
वेदलोकैः" इति लचयात् ॥ ८२ ।
 
मायेति । राम: बाणे: मायाकुरङ्गं मायाहगं, मारोच-