This page has not been fully proofread.

[१२४]
 
महानाटकम् ।
 
क्रुद्ध ततो दृढचपेटशिलात लेन
रच. पिपेष गगनेऽद्भुतपचिराजम् ।
ईपस्थितासुरपतद्भुवि राम ! राम !
रामेति मन्त्रमनिश निगदन् जटायुः ॥ ८ ॥
अथ कृतरथभङ्गं पक्षिराज (वोरं) निहत्य
चितिगतमवलोक्य श्वासमात्नावशेषम् ।
जनकनृपतिपुत्री चिप्रमादाय लगा
सरभसमुपदभ्रेऽशोककेलीवनान्ते ॥ ८८ ॥
 
क्रुड इति । ततोऽनन्तर रक्ष रावण क्रुद्धं सत्, क्रुड
इति पुलिङ्गपाठ प्रामादिक, रक्ष शब्दस्य "नैर्ऋतो यातु
रचसो" इत्यभरोक्तेर्नप सकलिङ्गत्वात्तदु विशेषणस्य तथैव युक्त -
त्वादिति बोध्यम् । हैढचपेट एव शिलातल प्रस्तरखण्ड
तेन गगने अन्तरीचे स्थितमिति शेष, अद्भुतपक्षिराजम्
आश्चर्यपचिप्रवर, गगर्ने इत्यव गहने इति पाठान्तरम्,
पिपेष निष्पिष्टवान् । जटायु ईषत् अल्प स्थिता असवः
प्राणा यस्य तथाभूत ठन, तेन प्रहारेणेति भाव, राम राम
राम इति मन्त्रम् अनिशम् अनवरत निगद्न् उच्चरन् भुवि
पृथिव्याम् अपतत् पपात । जटायुरित्यव मुमुक्षुरिति पाठे
मुमुचुः मोक्नुमिच्छ, निर्वाण लिप्सु रित्यर्थ: 1 मुसुर्पुरिति
पाठे मुमूर्षुः मर्तुमिच्छु आमचमत्युरित्यर्थ । वसन्ततिलक
 
वृत्तम् ॥ ८८ ॥
 
.
 

 
अथेति । अथानन्तर कतो रथभङ्गो येन व पक्षिराज,
पचिवोरमिति पाठान्तरं, निहत्य आाहत्य चितिगत भूपतित
खासमाचावशेष नि. श्वास मावावशिष्टम् अवलोक्य दृष्ट्वा जनक