This page has not been fully proofread.

हतीयोऽः ।
 
अथ युद्धम् ।
 
पक्षं विचिपति, ध्वजं विभजते, मयाति नहं युगं,
चक्रं चूर्णयति, चिम्पोति तुरगान् रक्षःपतेः पक्षिंराट् ।
रूक्षं गर्जति, तर्जयत्यभिभवत्यालम्बते ताडय-
त्याकर्पत्यपकर्षति प्रचलति न्यञ्चत्युञ्चत्यपि ॥ ८७ ॥
 
[१३३]
 
बाणानां शराणां व्यापार सम्प्रयोग: नो विधेयः न कर्त्तव्यः,
समयं युद्धं, रामेति भावः, अनुसर कुरु, साहसस्य रणव्यापारस्य
श्री. शोभा प्रोयतां प्रीता भवतु, चरितार्थतां गच्छत्वित्यर्थः ।
स्रग्धरा वृत्तम् ॥ ८॥
 
भक्षमिति । पचिराट् जटायुः रक्षमा पतेः रावणस्य अक्षं
रथचक्रान्तरालं काष्ठं विक्षिपति विपरीतं चिपति, ध्वजं
विभजते भग्नं करोति, दलयते इति पाठ दलयते वोटयती
त्यर्थः, नद्धं सम्बद्धं युगं रथाग्रवर्त्तिकाष्ठविशेषं मयोति मर्दयत,
ऋगातोति पाठे स एवार्थः । चक्रं चूर्णयति खण्डयति, तुर-
गान् अश्वान् चियोति नाशयति, रुचम् उग्रं यथा तथा, रुक्ष
मित्यव रुन्धविति पाठे रुन्धन् मार्गमाष्टव नित्यर्थः, गर्जति
चोत्करोति, तर्जयति तर्जनां करोति, अभिभवति तिरस्करोति,
मालम्वते मार्गमालम्बा तिउति, ताडयति प्रहरति, आकर्षति,
अपर्कर्षति अङ्गात् वमनादिकं प्याव्यतीत्यर्थः अवलुम्पतीति
पाठे तथैवार्थ: प्रचलति उड्डयते, न्यञ्चति अधोगच्छति,
उदश्वति उद्गच्छति अपि (चानेकास क्रियासु एकस्य
कारकपदस्य उक्तत्वात् दीपकभेदः, तदुक्तं दर्पणे- "अप्रस्तुत
प्रस्तुतयोर्दीपकन्तु निगद्यते । अथ कारकनेक स्याटनेकामु
क्रियासु चेतु" इति। शार्दूलविक्रीडितं वृत्तम् ॥ ८॥