This page has not been fully proofread.

[१३२]
 
महानाटकम् ।
 
आ पापिन् पश्यतो मे रघुतिलकबधूं चोरयित्वा प्रयासुं
सोतां प्रोतांशलेखामिव गिरिशशिरःशायिनीमुद्यतोऽसि ।
एभिवा शिरांसि प्रवनखमुखप्तचूडामणोनि
त्वामा गरुत्मानुरगमिव सुधाहारि संहरामि ॥ ८५ ॥
जानामि त्वा दशास्य । प्रबलभुजबलव्ये ढ़कैलासशैलं
नीत्वा वैदेहपुची' जलनिधिशरणं कस्य हेतोः प्रयासि १ ।
किं वा दूर शराणां दिशि दिशि पतता, किन्तु निर्लक्ष्यबाण-
व्यापारी नो विधेय, समरमनुसर, प्रीयतां साहसयोः ४८६
 
#t
 

 
आ पापित्रिति आ पापिन् पापाचार पश्यतो मे,
!
अनादरे पड़ो, पश्यन्तं मामनाहत्येत्यर्थः, गिरिशस्य हरस्य
शिर, शायिनी शिरःस्थिता शोताशुलेखामिव शशिकलामिव
रघुतिलकस्य रामस्य वधूं सोता चारयित्वा अपहृत्य प्रयातुं
गन्तुम् उद्यत: प्रात्त. असि, अद्य अहं गरुत्मान् गरुड़:
सुधाहारिणम् अमृतचौरम् उरगमिव भुजङ्गमिव त्वाम् एभिः
प्रखरै. तोक्ष्णैः नखमुखैः नखाग्रे. दोप्ता: चूड़ामण्यः किरोटा
येषु तानि तव शिरासि छित्त्वा संहरामि नाशयामि । उपमा-
लङ्काः । स्रग्धरा वृत्तम् ॥ ८५ ॥
 
जानामीति । हे दशास्य दशानन ! प्रचलेन भुजाना
बलेन ब्यूढ़. उद्धृतः कैलामगेल: येन तथाभूतं महाजलभुज-
शालिनमित्यर्थः, त्वां जानामि बाहुबलं दर्शयेति भावः,
वैदेहपुची जानकों नीत्वा अपहृत्येत्यर्थः, कस्य हेती: किमर्थं
जलनिधिरेष शरणम् आश्रयः तत् प्रयासि गच्छसि ? वा
अथवा दिशि दिशि पतता शराणा, दाशरथेरिति भावः दूरं
किम् ? न किमपोत्यर्थ', किन्तु निर्नास्ति लच्यं यस्य तादृशः