This page has not been fully proofread.

[[३०]
 
महानाटकम् ।
 
अविदुषस्तव दोषमहं सहे, विसृज गवण वोरपतिव्रताम् ।
शरणमस्मि जटायुरह सखा दशरथस्य रथस्तव तिष्ठतु । ८२ ॥
तथापि तमवधीय गच्छति रावणे जटायु ।
रेवेभो परदारचौर । किमिद धोरं त्वया गम्यते,
तिष्ठाधिष्ठितगन्धमादनतट प्राप्तो जटायु स्वयम् ।
मुञ्चैनां पतिदेवता, न खलु चेन्मत्तुण्डचण्डाद्भुश-
क्रोडा (क्रूरा) कर्पणनिर्गतास्त्रमुरस पास्यन्ति रटनास्तव ॥८३ ॥
 
अस्तीति शेष, यत् मोता समाकृष्यते चौव्र्येषापक्रियते
तस्मात् हे यशुमते। पशोरिव मति बुडिर्यस्य तथाभूत ।
निशेषतां नास्ति शेयो यस्य स निशेष तस्य भाव ता
निर्वगतामित्वर्य यात गत अमि, ( शतेन तव कम्प्रेणा
रातमकुल निशेयं भविष्यतीति भाव । मार्दूलविक्रीडितं
 
वृत्तम् ॥ ८१ ॥
 
अविदुष इति । हे रावण । अविदुष यज्ञस्य तव दोप
सीताहरणापराधमित्यर्थ, अमुहे जमे, वोग्पतिव्रता वीर
पतिरतां, मौतामिति शेष विसृज मुञ्ञ । यह दशरथस्य
सखा जटायु शरणं रचिता अम्मि भवामि, 'शरणं गृह
रचित्रो " इत्यमर तब रथ तिष्ठतु भूमो अवरोहविर्य । द्रुत
विलम्बितं वृत्तं "द्रुतविलम्तिमाह नभी भरो' इति लक्षणात् ॥८२
 
बेरे इति । रे रे इति अवज्ञासूचकं सम्बोधनम् । भो
परदारचौर परस्त्रोतस्कर त्वया धीर मन्द मन्द यथा तथा

निकडेगमिति भाव, गम्यते किमिदम् १ किमरे इति पाठा
तरम् । विउ स्थिरो भव अधिष्ठित गन्धमादनस्य गिरे तरं
येन म गन्धमादनवटघामोत्यर्य, गन्धमादनेत्यव चन्दना-