This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
हेलोत्तोलितकेलिकन्द कनिभः कैलास उत्पाटित-
स्तत् किं रावण ! लज्जसे न ? हरसे चौर्येण पत्नी रघोः ॥५०॥
जन्म ब्रह्मकुले, तपस्त्वनुपमं वोयंञ्च लोकोत्तरं,
 
किञ्चेश्वर्यमहो त्रिलोकजयिन: (ता) स्वर्गाङ्गनास्वामिनः ।
इत्यस्मादपि वान्छितं किमधिकं, सोता समाक्लप्यते,
तस्मात्त्वं मह वान्धवैः पशमते ! यातोऽसि निःशेषताम् ॥ ८२ ॥
 
[२२८]
 
जन्मेति । हे रावण । ब्रह्मणः कुले वंशे जन्म, ब्रह्मणः
प्रपौत्रोऽमोति भावः, हरस्य अर्चनविधी पूजनविधाने शिरसां
कर्त्तनं छेदनं, क्वन्तनमिति पाठान्तरे स एवार्थ, कृत्वा
भक्ति, (प्राणानपि अगणयित्वा हरमर्चयसीत्यर्थः, वजिणि
वस्त्रायुधे इन्द्रे बाहुदण्डै: यत् दलनं स एव व्यापारः तव
शक्ति, सामर्थं पुरा महतो, मतेति पाठे ख्यातेत्यर्थः । हेल्या
अवलोलया उत्तोलितं यत् केलिकन्दुक क्रोड़ागेण्डुकं तद्रिमः
तसदृश, हेलोल्लासितेति पाठान्तरं, कैलास: गिरि: उत्पाटित
उन्मूल्य उद्धृत इत्वर्य, अथच चीखेंण रघोः रामस्य पत्नी हरमे,
तत् तस्मात् न नज्जसे किम् ? निर्लज्जस्वमिति भावः ।
शार्दूलविक्रीडित वृत्तम् ॥ ८० ॥
 
जन्मेति । ब्रह्मकुले ब्रह्मण वंशे जन्म, तपस्तु अनुपमम्
उपमारहितं, शिरःकर्त्तनावधिकत्वादिति भावः, वीर्यञ्च लोको-
तरम् अलोकिक, विनोकविजयीति भावः । किञ्च विलोक-
जग्निः तथा खर्गाननानां देवाङ्गनाना स्वामिनः भोतु रिति
यावत्, तवेति शेषः, ऐश्वर्य प्रभुत्वम् अहो आर्य, विनोक
जयितेति पाठे विलोकजयितया हेतुना स्वर्गाङ्गनानां स्वामिन
इत्यर्थः इत्यस्मादपि अधिकं वान्छितम् अभिलपितं किम्,