This page has not been fully proofread.

प्रथमोऽङ्कः ।
 
नान्यन्ते सूत्रधारः । [क]
 
वाल्मोकेरुपदेशतः स्वयमहो वक्ता हनूमान् कपिः,
श्रीरामस्य रवूहहस्य चरितं, सौम्या वयं नर्त्तका ।
गौष्ठी तावदियं समस्त सुमन मोन संवेष्टिता,
तडीराः ! कुरुत प्रमोदमधुना वक्तास्मि रामायणम् ॥१४॥
राजासीत् स महारथो दशरथचण्डांशवंशाग्रणी,
तस्यासन् रमणीयकेलि (रूप) निलयास्तिस्रो महियः शमाः ।
 
[११]
 
प्राणाधिकाया इति भावः, उपेक्षा परित्याग, अवधिर्यस्मिन् तत्
यथा तथा लोकेवगता लोकरञ्जनं पुनातु पवित्रोकरोतु, सर्वा-
नम्मानिति शेष. । गार्दलविक्रीडितं वृत्तम् ॥ १३ ॥
 
DO
 
[क] नान्यन्ते इति । नान्दी पूर्वोक्ताशीर्वादरूपा तस्या अन्ते
अवसाने सूत्रं धरतीति सूत्रधारः नाट्यप्रवर्त्तकाना प्रवरो नट-
विशेष आहेत क्रियाध्याहारयान्वेति ।
 
J
 
वाल्मीकरिति ।" वाल्मोके : उपदेशत. शिक्षणात् हनूमान्
कपिः वानरः स्वयं वक्ता कवयिता हो वानरस्यापि कवित्व
 
*
 
मित्यायध्यमित्यर्थ । रघूहहस्य रघुवंशधुरन्धरस्य श्रीरामस्य
चरितम् अतोब मनोहरमिति भावः, नर्त्तका अभिनेतारो वयं
सोम्याः शोभना:, कुशला इति यावत्, इयं तावत् गोष्ठी सभा
समस्ताना समवेतानां सुमन॑सा सहृदयाना, विदुषामित्यर्थः,
सङ्घन समूहेन सवेष्टिता सम्पूरिता तत्तस्मात् नाव्योपयोगि
समग्रसामग्रोसंयोगादिति भावः, हे धीराः ! सुधिय. अधुना
प्रमोदम् आनन्टं कुरुतः अनुभवत, रामायणं रामचरित वक्तास्मि
वर्णयितास्मि । गार्टूलविक्रीडित वृत्तम् ॥ १४ ॥
 
कयामुपचिपति राजेति । सः प्रसिद्ध चण्डागो: सूर्यस्य