This page has not been fully proofread.

तृतीयोs: ।
 
विधायैनां रामस्फुरितपदपद्माद्वितभुवं
तदध्वानं पश्यन् कथमपि से सौमिविरगमत् ॥ ६५ ॥
 
[१२१]
 
नीतो दूरं कनकहरिणच्छद्मना गमभद्रः,
पश्चाटेनं द्रुतमनुसरत्येष वत्सः कनिष्ठः ।
विभ्यत् विभ्यत् प्रविशति ततः पर्णशालाव भिक्षुः
धिग धिक् कष्टं प्रययति निजामाकृतिं शवोऽयम् ॥ ६६ ॥
रामोन्मुक्तैकवाणप्रतिहतहृदयः काञ्चनासः कुरङ्गः,
सद्यो मारोचनामाऽजनि रजनिचरः सान्दरताकवचाः ।
 
चिराष्टे इति । म सौमित्रिर्लक्ष्मण रामे चिराइष्ट चिर-
मस्टे, चिरयतीति-भाव, करणकटुभि इन्द्रियव्ययकरित्यर्थः,
मैथिलसुतायाः सोतायाः वचोभिः हेतुभिः एना मोतां
कोदण्डस्य धनुष. श्रटन्या कोव्या जनिता उत्पादिता या रेखा
तस्या अन्तरम् अभ्यन्तरं गता तां विधाय धनुष्कोटिरेखातो
वहिर्मा गच्छेत्युक्तति भावः, रामस्य स्फुरितैः राजितैः पदपद्मैः
अद्धिता चिह्निता भूयव तं तदध्वानं तस्य रामस्य श्रध्वानं
पन्यानं पश्यन् अवलोकयन् कथमपि अनिच्छ्येति भावः,
अगमत् गतवान् । शिखरिणी वृत्तम् ॥ ६५ ॥
 
नोत इति । राम: कनकहरिगः काञ्चनमृगः तस्य छद्मना
कपटेन टूरं नीतः चाकटः । एप कनिष्ठा वत्सः लक्ष्मणः
पश्चात् द्रुततरम् एन रामम् अनुसरति अनुधावति । ततः
अनन्तरम् श्रयं रावण: भिक्षुः मन्यासी सन् विभ्यत् विभ्यत्
वस्यन् वस्यन् पर्णशालां प्रविशति, धिक् धिक कष्टं निजाम्
प्राकृतिं दशाननावयवं प्रययति श्राविकरोति च। मन्दा-
क्रान्ता वृत्तम ॥ ६६०
 
म- ११