This page has not been fully proofread.

तृतीयोऽद्वः !
 
[ize]
 
रामः । वस लक्ष्मण ! त्वमस्याः प्रजावत्याः महायो भव ।
यावदहमेनं कनककुरङ्गं निहत्यागच्छामीति निष्क्रान्तः ।
आलोकयन् विशिख मेककरेण मन्दं
 
कोदण्डकाण्डमपरेण करेग्य सज्यम् ।
संना पुष्पलतया पटलं जटाना
रोमो मृगं मृगयते वनवोथिकासु ॥ ६२ ॥
श्रय मृगचरितम् ।

 
हस्तप्राप्यमुपैति, लेढ़ि च तृणं, न स्पृश्यतां गाइते,
गुल्मान् प्राप्य निवर्त्तते, किसलयान्याघाय चाधाय च ।
भूयः पश्यति, गच्छति प्रतिटिश, कण्ड्यते स्वां तनुं,
दूरं धावति, तिष्ठति प्रचलति प्रान्तेषु मायामृगः ॥ ६३ ४
 
वचोऽनुरोधात् वचननिर्बन्धात् हेतोः रामः सशरः सन् कनक-
मृगम् अन्वियाय अनुसमार । पुष्पिताया वृत्तम् ॥ ६१ ।
 
आलोकयविति। रामः एककरे एकेन करेण दक्षिग्रेनेति
भावः, विशिखं शरम्, अपरेण करेण वामेनेति भावः, सत्यम्
अधिरोपित मौर्वोकं कोदण्ड काण्डं धनुर्दग्डं, धृतमित्युभयवाध्या-
श, मन्दं मावहेलमिति यावत् यथा तथा आलोकयन्
पश्यन्, आलोकयनित्यवान्दोलयनिति, मन्दमित्यव साहमिति,
मन्यमित्यत्र धुन्वनिति च पाठान्तरं सुगमम्, पुष्पलतया
जटानां पटलं चयं सत्र संयम्य वनवोधिकास भरवश्रेषिषु
मृगं मृगयते अविष्यति । वसन्ततिलकं वृत्तम् ॥ ६२ ॥
 
इस्तेति । मायामृगः काञ्चनकुण्डः हस्तप्राप्यं यथा तथा
उपैति उपगच्छति, समीपं गच्छतीत्यर्थ, हस्ताभ्यासमिति
 
पाठे इस्तसविधमित्यर्थः, वणं लेढ़ि खादति, स्पृश्यतां