This page has not been fully proofread.

[१०८]
 
महानाटकम् ।
 
कुम्भोद्भवेन मुनिना सह मन्वयित्वा
रामो निवासमकरोदय पञ्चवट्याम् ॥ ४४ ॥
तं पयोदमिव वीच्य सवाष्पं कम्पमानकमनीयकलापाः ।
ताण्डवानि विदधुस्तरुपण्डे दण्डकामनशिखण्डियुवानः ॥४५॥
राघवेण लघुना रघुनाथप्रेरितेन विपिनादुपनोतम् ।
स्वर्णवर्णम करोदधिकर्ष कर्णिकारकुसुमं करेभोरुः ॥४६॥
 
हवेति । श्रय भरतप्रतिगमनानन्तरं राम: मान्
तामसनिवासान् दृष्ट्वा चिराय चित्रकूटस्थलों चित्रकूटपर्वत-
भूमि विहाय परित्यज्य इह अरण्यभूमी विराधस्य राक्षसस्य
बधं विधाय कला अथानन्तरं कुम्भोइन मुनिना अगस्त्येन
सह मन्त्रयित्वा पञ्चमस्या निवासमकरोत् । वसन्ततितकं
वृत्तम् ॥ ४४ ॥
 
तमिति । दण्डकाननशिखण्डियुवानः दण्डकारण्यस्थित-
तरुणमयूराः सवाष्पम् अतिजलसहितं तं रामं पयोदं मेघमिव
वोच्य हवा कम्पमानः कमनीयः रमणीयः कलाप: वहः येषां से
सन्तः, "कलापो भूषणे वर्डे" इत्यमरः, तरुपण्डे वृक्षस्कन्धे
ताण्डवानि नृत्यानि विदधुः चक्रु' । स्वागता वृत्तं "स्वागता
जनमर्गुरुणा च" इति लक्षवात् ॥ ४५ ॥
 
राघवेणेति । करभोरु: सोता रघुनाथेन रामेण प्रेरितः
प्रादिष्टः तेन लघुना कनिष्ठेन राघवेण लक्ष्मणेनेत्यर्थः, विपि
नात् वनात् उपनीतम् आहृतं स्वर्णवर्णं काञ्चनप कर्णिकार
कुसुमम् अधिक कर्णे इति अधिकर्ण, विभक्तरर्थेऽव्ययीभावः,
अकरोत् चकार । स्वागता वृत्तम् ॥४६॥