This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
भरतः । हा हन्त ! मातरहह ! व्वलितानलो मां,
 
कामं दहत्वगनिशैलकपाणबाणा: ।
 
मयून्तु तान् विषहते भरतः सलोलं,
 
श्रीरामचन्द्रपदयोस्तु न विप्रयोगम् ॥ ३८ ॥
रामः । मां बाधते नहि तथा विपिनेषु वासो
राज्येऽरुचिर्जनकबान्धववत्सलस्य ।
रामानुजस्य भरतस्य यया, प्रियायाः
पादारविन्दयुगलचतिरुत्पलाच्याः ॥ ३८ ॥
 
[१०५]
 
हा. हन्तेति । हा हन्त इति खेदातिशयव्यञ्ज कमव्यय
इयम् । अहह मातः ! केकयोमुद्दिश्य सम्बोधनमिदम् ।
ज्वलितानलः ज्ञनदग्निः मां कामं यथेच्छं दहतु भस्मीकरोतु,
श्रमनिर्वत्रं गैल: पर्वत: कृपा असिः बाणः शरः एते मां
मथुन्तु हिंसन्तु, भरतः मलीनं सावहेलं यथा तथा तान्
ज्वलिताननादीन् विषहते विशेषेण सोटं,
विशेषेण सोटं मोतीत्यर्य:,
श्रीरामचन्द्रपदयोः यिप्रयोगं विरहं न तु नैव, विषहते
इत्यन्वयः । वसन्ततिलकं वृत्तम् ॥ ३८
 
मामिति । विपिनेषु वनेषु वाम: मां तथा नहि नैव
बाधते पोडयति,
पोडयति, अनकस्य पितुः बान्धवानाञ्च वत्सलस्य
मियस्य रामानुजन्य मदनुजस्येत्यर्थः, भरतस्य राज्ये राज्यं
कर्तुमित्यर्थः, अरुचिरनिच्छा वथा उत्पलाच्या नीलोत्पल
नयनायाः प्रियायाः मोतायाः पादारविन्दयुगलचतिः चरण-
पद्मयुगलचतं, विपिनपर्यटनादिति भावः, - यथा - बाधते इत्य-
न्वयः । वसन्ततिलकं वृत्तम् ॥ ३८ ॥