This page has not been fully proofread.

[१०४]
 
महानाटकम् ।
 
वाळा सज्जनसङ्गमे, परगुणे प्रोतिर्गुरौ नम्रता,
विद्यासु व्यसन खयोपिति रतिर्लोकापवादाद्भयम् ।
भक्ति शूलिनि, शक्तिरात्मदमने, ससर्गमुक्ति खुले
एते येषु वसन्ति निर्मलगुहाम्तेभ्यो नरेभ्यो नमः ॥ २६ ॥
-सामान्योऽयं धम्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ।
नत्वा नत्वा भाविन पार्थिवेन्द्रान भूयोभूयो याचते रामचन्द्र ॥३७॥
 
वर्त्म भवति, त्व सदा नियत यास्यमि एतत् वर्मेति शेष ।
शिखरिषी वृत्तम ॥ ३५ ॥
 
वाति । सज्जनै साधुभि सह सङ्गम तस्मिन् वाव्या
अभिलाष परगुणे पोषांगुणे विद्याविनयादी प्रीति
सन्तोष गुरौ गुरुजने मात्रादिष्विति भाव, नम्रता श्रव
नति, विद्यासु ज्ञानेषु व्यसनम आसक्ति स्वयोपिति निज
पत्नप्रा रति अनुराग, लोकापवादात् लोकेषु अपवाद निन्दा
दुष्कृत काव्य जनितेति भाव तम्मात् भय भीति, शूलिनि
ईश्वरे भक्ति, आत्मदमने इन्द्रियवशीकरणे शक्ति सामर्थ्य,
खले दुर्जन ससर्गमुक्ति सवर्जनम् एते निर्मलगुणा येषु
वसन्ति तिष्ठन्ति तेभ्यो नरेभ्यो नमः ताम नरान् प्रणमामी-
त्यर्थ । शार्दूलविक्रोडित वृत्तम् ॥ ३६ ॥
 

 
सामान्य इति । श्रय नरामा सामान्य साधारण धर्म
सेतु धर्ममक्रम, धर्मपथ इयि यावत् परस्ती मातेव इत्यायुक्त
रूप भवद्धि काले काले समये समये पालनोय रचणीय
इति रामचन्द्र भाविन भविष्यत पार्थिवेन्द्रान् राज्ञ भूयोभूय
पुन पुन नत्वा नत्वा प्रणस्य प्रणम्य याचते । शालिनी वृत्तम्,
"मात्तो गौ चेच्छालिनो वेदलोकै" इति लक्षणात् ॥ ३७ ॥