This page has not been fully proofread.

/
 
तोयोऽङ्कः ।
 
मोता सत्यपरायण प्रणयिनी, यस्थानुजो लक्ष्मणः ।
दोर्दण्डेन समो नचास्ति भुवने, प्रत्यचविष्णुः स्वयं
 
[22]
 
रामो येन विड़म्वितोऽपि विधिनाऽन्यस्मिन् जने का कथा ? ॥२८॥
जामाता पुरुषोत्तमो, भगवतो लक्ष्मीः स्वयं कन्चका,
दूतो यस्य बभूव कौशिकमु निर्यज्वा वशिष्ठः स्वयम् ।
दाता श्रीजनकः, प्रटानसमये चैकादशस्या ग्रहाः,
 
किं ब्रूमो भवितव्यतां इतविधेः रामोऽपि यातो वनम् ॥ २८ ॥
 
F
 
जात इति । सूर्यकुले सूर्यवंशे जातः, महाकुलीन इति
भावः, चोग्योभुजां भूपतीनाम् अग्रणीः श्रेष्ठः, सार्वभौम इत्यर्थः,
दशरथ: पिता, महापुरुषम्य पुत्र इति भावः, सत्यपरायणा
सत्यधभरता सोता प्रणधिनी प्रेयसी, लक्ष्मणः श्रनुजः, यस्ये- -
त्युभयवान्वेति, भुवने विलोक्यामित्यर्थः, दोर्दण्डेन बाहुबलेन
सम: तुल्यः, यस्यति पूर्वान्वयः, न च अस्ति नैव विद्यते,
स स्वयं प्रत्यचविष्णु माचात् नारायणः रामः अपि येन
विधिना विड़ेस्वितः प्रवञ्चितः तस्य हतविधेः अन्यस्मिन्
जने का कथा ? किं वक्तव्यम् ? विडम्बनस्योति भावः । अल
अन्यस्य विड़म्बनं दण्डापूपिकया आयातमित्यर्थापत्तिरलङ्कारः,
"दगडापूपिकयान्यार्थागमोऽयपत्तिरिष्यते इति लक्षणात् ।
गार्दूलविक्रीड़ित वृत्तम् ॥ २८ ॥
 
जामातेति । पुरुषोत्तमः स्वयं विष्णु: जामाता वरः,
भगवतो स्वयं लक्ष्मो : सौतेत्यर्थः कन्यका कौशिकमुनि
विश्वामित्र: दूतः वार्त्ताहर:, योजक इति भावः, बभूव, स्वयं
वशिष्ठ: यन्वा विवाहयकर्त्ता, यस्येति सर्ववान्वेति, स
योजनक: दाता सम्प्रदानकर्त्ता, प्रदानसमये च ग्रहाः रव्यादयः