This page has not been fully proofread.

[२८]
 
महानाटकम् ।
 
हृदयावापयातोऽसि दिक्षु सर्वासु वीक्ष्यसे ।
 
वत्स । राम । गतोऽसौति सन्तापादनुमोयते ॥ २६ ॥
सुत्वा सुमन्त्रवचनेन सुतप्रयाणं,
 
मापस्य तस्य च विचिन्त्य विपाकवेलाम् ।
हा राघवेति सक्दुच्चरिते नृपेण
निश्वस्य दीर्घतरमुच्छ्रसितं न भूय ॥ २७ ॥
अथ पौरजनः ।
 
जात सूर्य्यकुले, पिता दशरथ क्षौषोभुजामग्रणोः,
 
हृदयादिति । हे वत्स राम । त्वं हृदयात् न अपयात.
न निर्गत असि, हृदये तिष्ठस्येवेत्यर्थ., सर्वासु दिक्षु बोध्यमे
दृश्य से, सङ्कल्पातिशय महिम्ना सर्वजगतामेव राममयदर्शनादिति
भाव:, किन्तु सन्तापात् दु.खात् गतोऽसि इति अनुमोयते, यत्र
यत्र रामसद्भाव तत्र तत्रैव सन्तापाभाव, यतोऽयं मे सन्तापाति
शयो वर्त्तते तस्मात् रामो मम दूर गत इत्यनुमानमिति भाव ।
अनुष्टुप् वृत्तम् ॥ २६ ॥
 
श्रुत्वेति । नृपेण राजा दशरथेन सुमन्त्रस्य बचनेन सुतस्य
रामस्य प्रयाणं वनप्रस्थान श्रुत्वा तस्य च शायस्य यज्ञद्रत्तमुनि
दत्तस्येति भावः, विपाकवेला, "दिष्टान्तमाप्सासि भवानपि
पुत्रशोकात्"
इति मुलभोकरूपत्रमरणकाल विचिन्त्य, हा राघव ।
हा राम ! इति सकृत् एकवारम् उच्चरिते सति दीर्घतरं निश्वस्य
भूयः पुनः न उच्छ्रसितं न निश्वसित, प्रायविगमो जात इसि
भावः । उञ्चरितमिति पाठे दीर्घतरं निखस्य हा राघव !
इति सकृत् उच्चरितं भूयः पुन न उच्छुसितमिव्यन्वयः । वसन्त
तिलकं वृत्तम् ॥ १७ ॥