This page has not been fully proofread.

तृतीयोऽड: ।
 
८७
 
प्रय श्रीरामम् अनुव्रन्य आगतः (घ ) सुमन्त्रो दशरथं प्रति ।
भवद्विरा राज्यमपास्य तूर्णं वनं जगामेव रघुमवीरः ।
निपनपृष्ठः शरचापहस्तस्तं लक्ष्मणोऽगादनु सोतया च ॥ २४ ॥
तदाकलय्य दशरथः ।
 
आहतस्याभिषेकाय विसृष्टस्य (प्रस्थितस्य ) वनाय च ।
न मया लचितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ २५ ॥
 
• यत् चिन्तितं, लोकेनेति शेषः, तत् दूरतरं प्रयाति, यत् चेतसा
न गणितं, लोकेनेति शेषः, इह तत् अभ्युपैति । वाच्छितं न
सिध्यति अनिष्टञ्च समुपैतोति भाव । तथाहि य. अहं प्रातः
प्रभाते वसुधाधिपाना राज्ञां चक्रवर्ती सम्राट् भवाभि, सोऽहं
जटिन, तपस्खो सन् विपिनं वन प्रजामि गच्छामि, हो विधे-
विन्नमितमिति भाव । विशेषेण
सामान्य समर्थन
रूपोऽर्थान्तर-
न्यासः । वसन्ततिलकं वृत्तम् ॥ २३ ॥
 
( घ) अनुव्रज्य अनुगम्य ।
 
भवदिति । रघुप्रवीरः रामः भवतः गिरा वचनेन, आदेशे
नेत्यर्थः भवहिरेत्यव गुरोगिरीति पाठश्च, राज्यम् अपास्य विधाय
तूर्णं गोधं वनं जगासैव । लक्ष्मण, निषङ्ग तूणीर पृष्ठे यस्य
स: तथा शरा: चापं धनुथ हस्ते यस्य तथाभूत. सन् सोतया
नं रामम् अन्वगाव अनुजगाम च । उपजाति वृत्तम् ॥ २३॥
ग्राहतस्येति । हे समन्त्र । मया अभिषेकाय ग्राहतस्य
आमन्त्रितस्य बनाय विसृष्टस्य प्रेषितस्य, प्रस्थितस्यति पाठान्तरं,
तस्य रामस्य स्वल्पोऽपि आकारविश्वमः आकारखैनचण्य मिति
यावत्, न लक्षित. न निरोचितः । अनुष्टुप् वृत्तम् ॥ २५ ॥
 
मुह