This page has not been fully proofread.

सहृदया:
 
॥ श्रीः ॥
 
" प्रस्तावना ।
 
विदिततममेवेदं समेषामपि गैर्वाणवाणीप्रणयिनाम् यत् श्रुतिस्मृतीतिहासपुराणादिषु
पुनः पुनरुद्घध्यमाणमहामहिमशालिन्येतस्मिन्भारते वर्षे कृतावतारैर्यशोमात्र शरीरैः सरस्वती
कटाक्षपाली भूतैर्वश्यवाग्भिरस्मत्पूर्वपुरुषैः संप्रगीतानां तालपत्रमात्र शरीराणामपूर्वाणां कचिदप्य
प्रकाशीकृतानां घटोदरस्थितदीपकुत्रापि निलीवानां प्रत्थरलानां प्रकाशीकरणेन संस्कृत समा
जस्य महतीमप्रतिविधेयामुपकृतिमातनोतीय श्रीशंकरगुरुकुलाभिधाना त्रैमासिक पत्रिका इति ।
तेष्वेव मन्थरत्ने ध्वन्यतममिदं महिषशतकाभिधानं काव्यम् ॥
 
अस्य च प्रणेता श्रीमान्बाञ्छेश्वरनामा कुट्टिकविः कन्नटिजातीयोऽपि द्रविडदेशीय: शह-
जिराजपुरे (तिरुबिशनल्लूर) कृतवसतिरासीदिति ज्ञायते । शजिराजश्च महाराष्ट्र देशीयानां मोस
लकुली नाना मे को जिप्रभृतीनां तञ्जापुर महाराजानामन्यतमः । अस्य च काल: A. D. 1684
प्रभृति 1710 पर्यन्तः । स स्वयं महापण्डितः सरसकावर्विद्रप्रियश्चासीदिति तत्कृतप्रन्थेभ्यसद्वि-
वयकप्रन्येभ्यश्च ज्ञायते । तेनोदारचित्तेन महाराजेन दत्ता बहवो विप्राणामपहारा: संप्रत्यपि
विराजन्ते । तेषु ललामभूतोऽयं शहजिराजपुराभिधानः 'तिरुबिसनल्लूर्' अग्रहारः । यः किल
कुम्भकोणनगर्याः क्रोशद्वय दूरे कवेरजातटनिकटे विद्योतते । यं चालमकार्षुः श्रीधर वेङ्कटेश प्रभृत
यो भक्ताप्रेसराः सत्कवयः । यं चोपवर्णयन्त्येतद्वयाख्यातारः स्वकीये मादृचिन्तामणौ- श्रीशहरा-
जेन्द्रपुरे श्रीशहराजेन्द्र विष्टपैः सदृशे' इति । श्रीश-हर-अज-इन्द्राणां विष्टपैः सदृशे इत्यर्थः । अस्मिन्
श्लोके श्रीशहराजेन्द्रपुरं हरिहरजोन्द्रभुवनवमतया वर्ण्यते । 1691 नमे कैस्तवान्देऽयं महाराज:
स्वनाम्नाऽप्रहारमिमं निर्माप्य नानादिगन्तेभ्यस्तेषु तेषु शास्त्रेषु पारीणान्पण्डित प्रकाण्डानानाम्ब
तेभ्यो दत्तवान् । तत्प्रतिमहीतारश्च सप्तचत्वारिंशत् पण्डितवराः । तेष्वन्यतम एतद्वन्थप्रणेतुः
श्रीवाळेश्वरस्य पिताऽपि । एतत्सर्व तदीयदानशासनपत्रात्सम्यक् ज्ञायते । एतद्वंशीया एत्र परं-
परया भोसलवंशीयानां महाराजानाममात्यपदबीमध्यविष्ठन् । अयमपि स्वपूर्वजनिरूढ सचिव्यधुर
वहंस्तदा तदा राजनीतीरुपदिश्य सन्मार्गे प्रवर्तयामास महाराजम् । तथा धुकं व्याख्यान प्रारम्भे
 
6