This page has not been fully proofread.

क्षेत्राणीति । पञ्चाङ्ग छविधौ पञ्चाङ्गलव्यापारे क्षेत्राणि केदारादीनि असि
प्राप्नोषि। अन्यत्र पलाङ्गलशास्त्रे क्षेत्राणि केदारादीनि अति प्राप्नोषि। पाङ्गविधि
पूर्वक भूदानमिति च। लब्धं प्राप्तमाई सिक्तं यत्कृष्णं नीलवर्णमजिनं यस्य स तथोकः । आई
कृष्णाजिनप्रतिग्रहोऽपि प्रतिपाद्यते । सहस्रशः गशं भूमीनां दानेषु स्खण्डनेषु कृष्यादिषु प्रतिदिनं
प्रत्यहम, आत्मना अन्तःकरणेन पात्रीभवसि पात्रं भवति । सहस्रगोप्रतिग्रह इति च । समुद्घोषेण
सम्यगुद्घोषेण ब्रह्माण्डकटाइमण्डमितिमसि प्राप्नोषि; अण्डमितियापिशब्द करोषीत्यर्थः ।
ब्रह्माण्ड कटाहप्रतिग्रह इति च । स्वर्णानां हिरण्यानां तुला बोलनमपि लब्धा प्राप्ता महिषेन्द्रम
कृषि कुर्वन्तः संपत्तिमुत्तमां प्राप्य सुबर्गतोलनं कुर्वन्तीत्यर्थः । हे कासरपते इत्थं महादान प्रतिमहं
कुर्वतस्ते तब दीर्घायुः शास्त्रोक्तं दीर्घायुष्यामिच्छामि बान्छामि । महादानप्रतिमहं कुवा-
पमृत्युप्रसक्त्या तत्परिहारस्य प्रार्थनीयत्वादिति भावः ॥ १९ ॥
 
सुग्रीवोऽसि महान्गजोऽसि वपुषा नीलः प्रमाथी तथा
धूम्रबासि महानुभाव महिष त्वं दुर्मुखः केसरी ।
 
इत्थं ते सततं महाकपिशताकारस्य साहाय्यतः
 
सीतां प्राप्य विला दुःखजलघि नन्दामि रामः स्वयम् ॥ १०० ॥
 
सुग्रीव इति । सुष्ठु मीत्रा कण्ठो यस्य तथोक्तः; अन्यत्त सुप्री: प्रसिद्धः । वपुषा
देहेन महान स्थूलो गजोऽसि; स्थास्ये गजसदृश इत्यर्थः । अन्यत्र गजो गवाथ इति प्रसिद्धो
बानरः । नीलो नीलवर्णः; अग्नितनयश्च । प्रमाथी प्रहर्ता ; बानरच। धूम्रो धूम्रवर्ण: ; बानरच!
हे महानुभाव सर्वश्रेष्ठ महिष त्वं दुर्मुखः विकृतमुखः दुर्मुखनामा बानरश्च । केसरा लोमानि
तैर्युक्तः ; तन्नामा वानरश्च । इत्थमेवंप्रकारेण महाकपिशता कारस्थानेक कापरूषस्य ते साहाय्यतः
उपकारत: सीतां लाङ्गलपद्धर्ति प्राप्य; अन्यत्न जानकीं लब्ध्वेत्यर्थः । दुःखजलविं दुःखसागरं
विळ ती स्वयं रामो रमणशीलः सन् नन्दामि संतुष्यामि ॥ १०० ॥
 

 
श्रीमद्भोसलवंशदुग्धजलधेः संपूर्णचन्द्रोपमो
 
यः शास्ति क्षितिमक्षति क्षितिपतिर्मूर्तः प्रतापः स्वपम् ।
दीर्घायुजिंत शत्रुरात्मजबुतो धर्मी प्रजारागवा-
दुल्लाघोस्तु स निस्तुलैर्निजस भास्तारैः क्रमादागतैः ॥ १०१ ॥