This page has not been fully proofread.

कालिदासादिरचितः लाघयितुं योग्यो यः प्रबन्धो नाटकादि: स इवाचरासे, अत इति शेषः ।
अतः कारणास्वां पुनः पुनरालोक्य नवरसालंकारं नवश्वासौ रसाया भूमेरलंकारश्च तमीहामहे 1
इच्छामहे । प्रबन्धपक्षे- वर्णैः कादिभिरक्षरैः, रसानां शृङ्गारादीनामाघारोऽसि । बन्धेन
खङ्गपद्ममुरजादिबन्धेन उज्ज्वलः, वृत्तात्मा, स्रग्धरादिवृत्तात्मा ध्वनिमा व्यसन्चार्थेन गर्भितः ; युत
इत्यर्थः । अत्र लाध्यप्रबन्धायस इत्यनेन महाकवि प्रणीतोत्तम काव्यसादृश्यं प्रतिपिपादयिषितम् :
सम पूर्वोत्तर विशेषणसंदर्भैः स्पष्टम् । तथा हि- रसाधारोऽसीत्यनेन नवरससंपत्तिः प्रतीयते ।
तथा निर्दोषत्वमपि ध्वन्यते, दोषसम्वे रसाप्रतीतेः, रसाभिव्यक्तिप्रतिबन्धकस्यैव दोषत्वात् ।
बदुतमालंकारिकैः– 'रसास्वादविरोधित्वं दोषत्वं परिकीर्तितम्' इति । बम्बोज्ज्वल इत्यनेन
शब्दालंकारसंपत्ति: । ध्वनिगर्भित इत्यनेन वाच्यातिशायिव्यङ्ग्यप्रतीतिः । तदुक्तं काव्यप्रकाशे--
"बाच्यातिशायि व्यङ्गचं यदुत्तमं तदुनिश्च सः' इति । न च पूर्वार्धेन प्रबन्ध सादृश्यं हेतुत्वेन
प्रतिपाद्यम् । त्वामालोक्येत्यादिना नवरसालंकारप्रतिपादनात्प्रवन्धेऽपि नव रसा बक्तव्याः । तथा च
काव्यप्रकाशविरोधः । तत्र रसनिरूपणावसर अष्टानां रसानां प्रतिपाद्यमानत्वादिति बाध्यम् ।
तस्य नाट्याभिनेयरसपरत्वात् । तदप्युक्तं तत्रैव --' शृङ्गारहास्य करुणरौद्रवीरभयानका: । बीभत्सा-
द्रुतसंज्ञो चेत्यष्टौ नाट्यरसाः स्मृताः ॥' इति । शान्तरसस्याभिनेयत्वाभावेन नाट्यरसत्वाभावात् ।
' निर्वेदस्थायिकः काव्ये शान्तोऽपि नवमो रसः' इति तत्रैव नवरसस्य व्यक्तत्वाअवर सालंकारस्वं
श्रबन्धे युक्तमेवेत्थन्यत्व बिस्तरः ॥ ६७ ॥
 
1
 
प्रीतिं यासि मृदङ्गतः कलय से तालप्रमाणं तनौ
चातुर्य बहुलास्यकर्मसु नृणां संदर्शयन्व्यञ्जकम् ।
कुर्वन्स्वीय परिश्रमाद्धविधादर्थैः समारं जन
 
सत्यं सैरिममण्डलेन्द्र मरताचार्यत्वमालम्बसे ॥ ६८ ॥
 
श्री तिमिति । मृदा मृत्तिकया युक्तमङ्गं मृदङ्गम; तस्मात्त्रीति संतोषं यासि प्राप्नोषि $
कमादिषु स्वाच्छन्द्येन प्रवृत्तिदर्शनादिति भावः । तनौ शरीरे तालप्रमाणं तालवृक्षस दृशौनत्यं
कलय; तद्वदुन्नतो भवसीत्यर्थः । नृणां पुरुषाणां व्यञ्जकं स्वीयलिङ्गं संदर्शयन् बहुलमधिकं
महास्यकर्म महिषी मनोजगृहाघ्राणमुखोन्नमनादिरूपम्; तत्र चातुर्य कलयसे इति पूर्वेणान्वयः ।
बहुविधादनेक प्रकारात्कृष्यादिरूपात्स्वीय परिश्रमात्स्वकीय
स्खेदात्कारणीभूतात्संपादितैरयैर्धनधान्यादि-
भिर्जन लोकं सभारं भारयुक्तं कुर्वन् हे सैरिभमण्डलेन्द्र भरताचार्यत्वं भरतशास्त्रज्ञत्वम् ; त्वमिति
शेषः । आलम्बसे प्राप्नोषि । भरताचार्यपक्षे-
मृदङ्गतो बाद्यविशेषाचर्मावनद्ध मुखरूपात् । तदुकं
 
1. नूनं सैरिभसार्बभौम
 
-