महिषशतकम् /50
This page has not been fully proofread.
महिनासम्
सुक्षेत्रश्रियमादधासि महताज्ञानेन पूज्योऽसि त-
त्सालग्राम इबावभासि नियतं श्रीकासराधीश्वर ॥ ६२ ॥
मूर्तिमिति । नीलां कृष्णां मसृणां कर्कशाम्, 'मसृणः कर्कशे स्निग्धे । ' इति विश्वः ।
नरैर्मनुष्यैः नित्याभिषिक्तां मूर्ति शरीरं बिभर्षि। पञ्चषचक्रतः पञ्चषचक्रेः प्रायः विक्रेतुं योग्यः ।
चक्रमिति द्रव्यपरिमाणविशेषे दाक्षिणात्यप्रयोगात् । बन्धो बन्धनं, मोक्षो बन्धनस्थानागोष्ठाचाङ्ग-
मुक्तिः, तदुभयमपि कलयसि करोषि । महिषबन्धनमोक्षयोरन्यकर्तृकत्वेऽपि सौकर्यातिशय
विषक्षया स्थाली पचतीतिवत्प्रयोगो गौणः । सुक्षेत्रस्य उत्तमशालीक्षेत्रस्य श्रियं सस्मादिद्वारा
शोभामादधासि करोषि । महता अज्ञानेन जाड्येन पूज्य: संरक्षणीयः; विवेकिनां कृष्यादौ
प्रवृस्यदर्शनात् । तत् तस्मात्कारणात् सालग्राम इवावभासि । हन्तेत्याश्चर्ये । सालप्रामपक्षे-पष.
चक्रतो माझः, चक्राधिक्ये भगवत्संनिधानाधिक्यात् । बन्धमोक्षौ संसारापवर्गों ; सुत्रेण समीची-
नक्षेत्रेण द्वादशमूर्तिसमावेशरूपेण श्रियं सार्वभौमादिसंपत्तिम; महता ज्ञानेन अत्युत्तम श्रद्धारूपेण ॥
गम्भीरस्तिमितो न कम्पमयसे गर्योऽस्यपानेन च
प्रायः किं च सदाशनक्रमकरो नित्यं नदीनोऽसि च
संपूर्णः पृथुरोपभिव भजसे वृद्धि क्षयं चाश्नुषे
तवं कासरमण्डलेश्वर जलप्रायः 'समुद्रोऽसि नः ॥ ६३ ॥
गम्भीर इति । गम्भीरश्चित्तचापलरहितः, तिमितो निश्चलः कम्पं भयं नायखे
1
म प्राप्नोषि। अपानेनापानवायुना गर्यो निन्धः । प्रायः प्रायेण सदाशनक्रमं भक्षणक्रमं
करोतीति तादृशः । नित्यं सर्वदा नदीनः याच्यादिदैन्यरहितः । पृथुभिर्महद्भिः रोमभिः संपूर्णो
व्याप्तः । वृद्धि भक्षणादिजनितशरीरवृद्धि भजसे प्राप्नोषि क्षयं गृहम; 'निवेशः शरणं क्षयः '
इत्यमरः । अश्नुषे गच्छसि । तत्तस्मात्कारणात् हे कासरमण्डलेश्वर महिषयूथाधिप जलप्रायो
जडप्रायः, नोऽस्माकं समुद्रो मुद्रया चिह्वेन सहित: अति भवसि । समुद्रपक्षे- गम्भीरो
निम्म्ररूप: ;
'निम्नं गभीरं गम्भीरम्' इत्यमरः । तिमितो मत्स्यविशेषात् कम्पं चलनम्; अपानेव
पानाभाबेन; दाशाच जलसंचारिनराः, नक्राः प्राहाञ्च, मकराः मत्स्यविशेषाश्च : सहितः,
नदीनां गङ्गाप्रभृतीनां इनः पतिः, पृथुरोमभिर्मत्स्यविशेषैः ; 'पृथुरोमा झषो मत्स्यः' इत्यमरः ।
क्षयवृद्धी हासाधिक्ये ॥ ६३ ॥
1. स्वरस्वानपि