This page has not been fully proofread.

महिषशतकम्
 
-
 
जमाखान्तस्यानित्यत्व कल्पना दोषोऽपि निरस्तः । स्वस्थाने स्वावासस्थाने करीवकदमादियुक्तेऽपि मुदि-
तः संतुष्ट: । स्वस्य रूपेण स्वभावेन, 'रूपं स्वभावे सौन्दर्ये' इति विश्वः । गतया प्राप्तया त्रिया
संपदा युक्तो विशिष्टः। हे लुलायराज त्वं महतीं बिपुलां देवेन्द्रलक्ष्मी वहन्सन् मदृहे गोष्ठे तिष्ठ ।
इन्द्रपक्षे — गोत्रस्य पर्बतस्य; 'अद्विगोत्रगिरिग्रावा' इत्यमरः । अहल्यागलालिङ्गनमिति छेदः ।
इन्द्रो हि प्रभातसमये गौतमवेषेण गौतमाश्रमं प्रविश्याइल्यां भुङ्क्त्वा गौतमेन शप्त इति श्रुतिस्मृति-
पुराणादिषु प्रसिद्धिः । बहुयश्च वा अप्सरसः रम्भाप्रभृतयस्तासु स्वस्थाने स्वर्गस्थाने; 'स्वरव्ययं
स्वर्गनाक....' इत्यमरः । स्वरुण वज्रायुधेन; शतकोटि: स्वरुः शंबः' इत्यमरः ॥ ६० ५
नित्यं धीरमनांसि कर्षसि सदा रत्यां समुत्साहवा-
1
 
मुग्धानामुपमाऽसि मासि तपसि ज्याकर्षणेनोज्झितः ।
मामध्ये विषमेषु कर्म भजन्नग्रे वसन्तं स्पृश
 
न्सत्यं श्रीमहिषेन्द्र मन्मथ इव 'प्रत्यश्वमालक्ष्यसे ॥ ६१ ॥
 
नित्यं प्रत्यहं धीरं यथा तथा अनांसि शकटानि, अनः शकटमत्रि-
आकर्षसि । सदा सर्वकालं रत्यां क्रीडायां समुत्साहवान् प्रीतिमान् ।
मुग्धानां मूढानामुपमाऽसि दृष्टान्तोऽसि । उपमापदेन सादृश्यप्रतियोगी लक्ष्यते । 'मुग्भः
सुन्दरमूडयो:' इत्यमरः । माखि तपसि माघमासे; 'तपा माघे' इत्यमरः । ध्यायाः भूमेः;
'क्षोणी क्या काश्यपी क्षितिः' इत्यमरः । कर्षणेन विलेखनेन उसस्त्यत: ; तदानीं कृष्णा-
रम्भाभावात् । विषमेषु निन्दितेषु कर्मसु ; अभक्ष्यभक्षणादिष्वित्यर्थः । सामर्थ्य भजन् अप्रे पुरतः
बसन्तं वर्तमानं स्पृशन् घर्षयन् हे महिषेन्द्र त्वं मन्मथ इत्र प्रत्यक्षमाळक्ष्यसे । मम्मथपक्षे - श्री
राजां योगिनां मनांसि चित्तानि कर्षसि क्षोभयसि । रत्यां स्त्रीय भार्यांयाम्; मुग्धानां सुन्दराणाम;
तपोमासि व्याकर्षणे मौर्वीविकर्षणे, मोर्वी ज्या शिञ्जिनी गुगः' इत्यमरः नोन्झितः न यक्ष-
बान् । 'उज्झ विसर्गे' इत्यस्माद्धातोर्भाचे प्रत्यये अर्श आद्यच् प्रत्ययः । तथा च व्याकर्षणं नोझि-
वषानित्यर्थः, पीता गाबो भुक्ता ब्राह्मणा इति महाभाष्यानुवरात् । यद्वा उज्झितं त्यागः, न
बिद्यते उज्झितं यस्य नोम्झितः । न च नलोपः शयः, नशब्दलासाकारेण नोपासफेरिति
दिक् । बिषमाः पञ्चसंख्याकाः ये इषवो बाणास्तेषां कर्मसु संधानादिषु ; अत्रे बलम्तं वचन्वाक्य-
1
 
तुम् ॥ ६१ ॥
 
नित्यमिति ।
 
याम्' इत्यमरः । कर्षसि
 
मूर्ति इन्त बिभर्षि नीलमसृणां नित्याभिषिकां नरै-
ब्रह्मः पञ्चपचक्रतः कलयसि त्वं बन्धमोक्षाबपि ।
 
2. क्षमाभास मे
 
2. मे मम नेत्रयोः मन्मथ इव अनङ्ग इब प्रत्यक्षमा मासि इश्यसे ।