This page has not been fully proofread.

महिषशतकम
 
अवमर्शे बिचारे कृते सत्यज्ञानमयोऽसि अज्ञानविकारोऽसि । किंच, बृहदारण्यान्तरे महवि
बनान्तरे दृश्यसे । योगिभिरुपायज्ञैः; 'योगः संनहनोपायभ्यानसंगतियुक्तिषु' इत्यमरः ।
कर्षकैरिति शेषः । अखण्डाकारया महत्स्वरूपया वृत्त्या जीवनेन; 'वृत्तिर्बर्तनजीबने' इत्यमरः ।
प्रत्यक्षीक्रियसे, महिषदर्शनस्य कृष्येक प्रयोजनत्वादिति भावः । तस्मात्कारणात् पुच्छमयं पुछ-
स्वरूप ब्रह्म त्वमेवालीति योजना । ब्रह्मपक्षे तु- श्रवणादिभिः श्रवणमनननिदिध्यासनैः
साधनेमाझं ग्रहीतुं योग्यम् । श्रवणं नाम वेदान्तानां ब्रह्मणि तात्पर्यनिर्णयानुकूल मानसव्यापारः ।
मननं नाम शब्दाबधारितेऽयें मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलितर्कात्मक ज्ञानजनको
मनोव्यापारः । निदिध्यासनं नाम अनादिदुर्वासनाकलुषितस्य चित्तस्य दुर्विषयेषु स्वच्छन्देन
प्रवर्तमानस्य तत आच्छिद्यात्मैकतानता संपादनानुकूलो मानवव्यापारः । न च मननादीनामेव
ज्ञानरूपतया प्रसिद्धत्वेन तज्जन्यप्रहविषयत्वोक्तिरसंगतेति वाच्यम् । श्रवणादीनां ज्ञानरूपत्वे
ज्ञानस्य पुरुषतन्त्रतया विधेयत्वाभावेन मन्तव्य इत्यादिविधायकतव्यप्रत्ययानुपपत्तेः । तथा
हि — प्रवर्तनारूपो हि विधिः तव्यप्रत्ययार्थः; प्रवर्तन च प्रवृत्तिफलको व्यापार; प्रवृत्तिम
कृतिरूपा ; तथा च कृत्य साध्ये चन्द्रमण्डलाहरणादौ प्रवृत्तिप्रवर्तनयोरभावेन चन्द्रमण्डलमाइ-
र्तव्यनिति विधिप्रत्ययो लोकवेदयोर्न प्रयुज्यते । प्रकृते च भवणादेर्ज्ञानरूपत्वे 'श्रोतव्यो मन्त-
व्यो निदिध्यासितव्यः' इति विधिवत्ययानुपपत्तिः । तथा च बृहदारण्यके मैत्रेयीब्राह्मणम्-
आत्मा वाडरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति । अतः श्रवणादेर्ज्ञानरूपतानु-
पपत्तेः श्रवणादिजम्यप्रविषय इति युक्तमेव । ननु तर्हि दर्शनस्यापि ज्ञानत्वं न स्यात्, द्रष्टव्य
इति विधिप्रत्यय श्रवणादिति चेत् ; न, तत्व द्रष्टव्य इत्यस्योद्देश्यपरत्वेन विधेयपरत्वाभावात् ।
निर्णीतं चेदं शारीरकभाष्यदौ आचार्य श्रीभगवत्पाः । तथा च श्रवणादिभिः करणभूतैं:
संपादितग्रह विषयत्वात्, प्रायोऽसि श्रवणादिभिरित्युपपन्नतरमित्यन्यत्र विस्तर: । अत्र श्रवणा-
दिभिर्ग्राह्य इत्युक्त्या शास्त्रयोनित्वादित्यधिकरणे 'तं त्वौपनिषदम्' ' नावेदावन्मनुते' इत्या-
दिश्रुत्या ब्रह्मणो वेदैकगम्थत्वं निर्णीतमपि सूचितम् । परिचयादभ्यासातत्वावमर्शे तस्वस्य महा-
बाक्यान्तर्गततत्पद्लक्ष्यत्वोपलक्षितपरमात्मस्वरूपस्य ; 'तत्त्वं वाद्यप्रभेदे स्यात्स्वरूपे परमात्मनि'
इति बिश्वः । अवमर्शे विचारे क्रियमाणे सत्यज्ञानमयं ब्रह्म प्रतीयते; उपक्रमादिषड्डिधतात्पर्य -
लिङ्गेर्वेदान्तानां निरस्त समस्त भेद सच्चिदानन्दात्मकब्रह्मपरत्वेन महावाक्यानां निर्णीतत्वात् । यद्वा
तत्त्वस्य वस्तुतस्वस्य परमात्मरूपस्येत्यर्थः ; अवमर्शे बिचारे कृते सत्यज्ञानमयं ब्रह्म; न तु
नैयायिकादिमत इव ज्ञानाचधिकरणमिति भावः । न च प्राइयोऽसि श्रवणादिभिरित्यनेनैवास्यार्थम
सिद्धत्वात्पुनः परिचयादित्युक्तियेति वाच्यम् । तस्य श्रवणाद्यभ्यासपरत्वात् । तद्भ्यासेनैव
सत्यज्ञानानन्दात्मकब्रह्मात्मसाविबोधस्य जायमानत्वात् । निर्णीतं चेदम् 'आवृत्तिरसकदुपदेशात् '
 
4