This page has not been fully proofread.

महिषशतकम्
 
क्रन्दस्युद्धोषयसि । वैष्णत्रपक्षे- शृङ्गयुगं शृङ्गसदृशरेखाद्वयम्; 'प्रभुत्वे शिखरे चिहे
क्रीडाम्बुयन्त्रके' इति विश्वः । अभित उभयत्र भुजद्वयेऽपि प्रतप्तं चक्राङ्कनम्; तेषां तप्तमुद्राङ
नस्य पाञ्चरात्राद्यागमसिद्धत्वादिति भावः । श्रीरामानुजमण्डलस्य रामानुजसंबन्धिमण्डलस्य समू-
इस्य सदृशं योग्यं चिह्नं उछाटादो मृत्तिकालेपादिकम् । निजप्रबन्धसमये स्वस्य द्राविडप्रबन्धस्य
नालागिरप्रबन्धन्येति यावत् । वाचनवमय देवोत्सवादिबेळायां श्रेणीभूय अमन्दारवं अधिकस्बरं
यथा क्रन्दन्ते ॥ ५७ ॥
 
शृङ्गाग्रेण मुहुर्मुहुर्निजतनुं कण्डूय से मौनवान्
 
प्राग्वंशोपहितां प्रविश्य विपुलां शालां महिष्या समम् ।
अन्तस्तिष्ठसि धूलिधूमरतनुः कृष्णाजिनाच्छादित
 
स्तन्मे मासि लुलाय दीक्षित इव त्वं वाजिमेधऋतौ ॥ ५८ ॥
 
शृङ्गेति । शृङ्गामेण विषाणामेण मुहुर्मुहुरं वारं निजतनुं स्वकीयदेहं कण्डूयसे । मौन-
बान प्राग्वंशोपहितां प्राचीनाप्रवंशनिर्मितां विपुलां विस्तृतां शालां गोष्ठरूपां महिष्या समं प्रविश्या-
म्वस्तिष्ठसि । प्रागप्रैवंशेर्गोष्ठनिर्माण पश्वादिवृद्धिरिति शिल्पशास्त्रात्; धूलिभी रेणुमिर्धूसरा रूक्षा
तनुश्य स तादृशः, सर्वदा कृष्यादानेव व्यापृतत्वात् । कृष्णेन नीलेन अजिनेन चर्मणा
आच्छादितस्तस्माद्धेतो: ; हे लुलाय, वाजिमेधकतौ अश्वमेवे अश्वबंध इत्यर्थः । दीक्षित इबोयुक्त
इब भासि, महिषस्य बाहद्वित्वात् । दीक्षितपक्षे - शृङ्गाप्रेण कृष्णविषाणाम्रेण, कृष्णविषा-
गया कण्डूयते' इति श्रुतेः । मौनवान्; 'भुष्टीकरोति बाचं यच्छति' इति श्रुतेः । प्राग्वंशेन
प्राग्वंशसंशिकशाळा मुखायेन; 'प्राग्वंशः प्राग्घविर्गेहात्' इत्यमरः । महिष्या कृतामिषेकया,
अश्वमेधे राज्ञ एवाधिकारात् । धूलिधूसरतनुः अवभृथपर्यन्तं दीक्षितस्य स्नाननिषेधात् । कृष्णा-
जिनेनाच्छादित: ; 'अजिनेन दीक्षयति' इत्यनेन कृष्णाजिनस्य विहितत्वात् ॥ ५८ ॥
 
6
 
•ग्राह्योऽसि श्रवण दिभिः परिचयातस्चारमशें कृते
 
सत्यज्ञानमयोऽसि किं च बृहदारण्यान्तरे दृश्यसे ।
प्रत्यक्षीक्रियसे च योगिभिरखण्डा कारवृच्या स्वयं
 
तस्मात्पुच्छमयं लुलाय परमं ब्रह्म त्वमेवासि नः ॥ ५९ ॥
 
ग्रायोऽसीति । श्रवणादिभिः श्रोत्रादिभिः परिचयाद्वाह्यः इस्तेन ग्रहीतुं योग्यः । कर्ष-
काहि चिरपरिचयेन कर्णे गृहीत्वा पशून् काङ्गलेषु बनन्तो दृश्यन्ते तत्त्वस्य महिषस्वरूपस्य