This page has not been fully proofread.

महिषशतकम्
 
मौनमित्यर्थः । तथा च कहोलब्राह्मणम् – 'तस्माद्ब्राह्मणः पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत्
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः' इति । सहसे शीतातपौ निश्चल इत्यनेन द्वंद्वसहिष्णुता ।
तथा च भगवद्गीतायाम् – 'शीतोष्ण सुखदुःखेषु समः सङ्गविवर्जितः' इति । किंचिन्नैव च
याचस इत्यत्रापरिप्रहरूपो यमोऽभिहितः । तथा च योगभाध्ये – 'विषयाणामार्जनरक्षणक्षय सङ्ग-
हिंसादिदोषदर्शनादस्वीकरणमपरिग्रहः' इति । भुवि यथाजातात्मनेत्यत्र परमहंसाश्रमरूपावधूत-
चर्योच्यते । प्राणानां प्राणवायूनामाकर्षकृता निरोधकृता ; प्राणायामेनेत्यर्थः । यमेनाहिंसादिना,
नियमेन शौचादिनारूढः । योगस्य यमनियमाद्यष्टाङ्गोपेतत्वात् । अत्र योगपातञ्जले व्यासचरण-
भाष्यकृतः- 'यमनियमासनप्राणायामप्रत्याहार घारणाध्यानसमाधयोऽष्टाङ्गानि '
 
दिस्वरूपमपि तत्रैव वर्णितम् । 'अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहा यमाः
 
स्वाध्यायेश्वरप्रणिधानानि नियमाः 7 । तत्र स्थिर सुखमासनम् ' तद्यथा- पद्मासनम्,
 
वीरासनम्, भद्रासनमित्यादि । ' तस्मिन्सति निःश्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ।
सत्यासने बाह्यस्य वायोराचमनं निःश्वासः । कोष्ठस्थवायोर्निःसारणं प्रश्वासः । तयोगतिविच्छेदः
उभयाभावः प्राणायामः इवि ॥ ५६ ॥
 
3
 
3
 
1. यमाद्यष्टाशनियतत्वात् 2. देहे 3. श्रेणीभूय
मिल्यत आह— 6. देहे स्वीयदेहे 7. श्रेणीभूय एकीभूय.
 
इति ।
 
यमा-
' शौच संतोषतपः-
घत्से शृङ्गयुगं प्रतप्तमभितो गात्रे च चक्राशनं
 
श्रीरामानुजमण्डलस्य सदृशं चिह्नं च धत्से मुखे
पीभूय निजप्रबन्धसमये क्रन्दस्यमन्दारवं
 
'नूनं श्रीमहिपाधिराज भवसि श्रीवैष्णवाग्रेसरः ॥ ५७ ॥
 
घत्स इति । तत्तस्मात्कारणात् हे श्रीमद्दिषाधिराज, श्रीवैष्णवांप्रेसरः श्रीवैष्णव श्रेष्ठो भवास
"नूनमिति संबन्धः । कस्मादित्याह- शृङ्गयुगं विषाणयुग्मं धत्से वहसि । प्रकर्षेण तप्तमभितः
परितो 'गाने देहे चक्रवदनं चिह्नं धत्स इत्यनुषङ्गः । रोगादिपरिहारार्थं महिषाणां गवां च अने
शूलचक्रार्धचन्द्राद्याकारं चिह्नं तप्तायसशळाकया कुर्वन्ति कृषीवला: । श्रीरामानुजमण्डलस्य श्रीरूपिणी
या रामा तस्या अनुजश्चन्द्रः तस्य यन्मण्डलं बिम्बं तत्सदृशं चिह्नं मुखे वत्से । श्वेतवर्तुळावर्त-
शोभितललाटयुक्तस्य महिषस्य कृष्यादौ प्रशस्तत्वेन कृषीवलसंप्रदायो बोध्यः । भूपस्थि
भूत्वा निजस्य स्वस्य प्रकर्षेण बम्धो बन्धनं तस्य समये काले अमन्दारव मधिकशब्द् यथा भवति तथा
 
1
 
सत्यं
 
5. सत्यमिति निश्चयर्थेि । कम-