महिषशतकम् /44
This page has not been fully proofread.
महिषशतकम्
मुद्राधारणदग्धचर्मकतया 'दृश्यैः किणैरङ्कितो
मध्याह्वात्परमेव मञ्जास जले सानन्दतीर्थादरः ।
शान्ताङ्गाररुचि विमर्षि च तनौ तिष्ठन्ते दण्डिनो DEF
मध्वाचार्यमिवाधुनाऽनुकुरुषे श्रीमलायप्रभो ॥ ५५ ॥
मो
मुद्रेति । श्रीमहुँलायप्रभो मध्वानामाचार्य गुरुमनुकुरुष इव; कथं ? तत्राह - मुद्रायाः
प्रत्ययकारि चिह्नात्मिकाया धारणेन दुग्धं चर्म यस्य स तादृशः तस्य भावो मुद्राधारणदग्धचर्म-
कता तया; 'मुद्रा प्रत्ययकारिणी' इति विश्वः । 'दृश्ये: दृश्यमानैः किणैः व्रणसंजात चर्म-
विशेषैरङ्कितः; मध्याह्वात्परमेव मध्याह्नादनन्तरमेव जले मज्जसि; प्रातःकाले कृष्यादिकार्यव्या-
पृतत्वेन तदानीं जलावगाहनासंभवात् । सानन्दं यथा भवति तथा तीर्थे आदरो यस्य सः तथा-
मूतः, तनौ शरीरे शाम्ताङ्गाररुचि शान्ताग्निकोलकाकान्ति विभर्षि। दण्डिनो दण्डवतः, मते बशे
तिष्ठन् । अम्यत्र - मुद्राधारणेन तप्तमुद्राधारणेन । मध्याह्वात्परमेव जले मज्जति; मध्वानां वैदिक-
मार्गबहिष्कृतानां प्रायेण वेदाध्ययनाभावेन शुष्कतार्किकाणां तेषां प्रातःस्नानाभावस्य सर्वलोक-
प्रसिद्धत्वात् । आनन्दतीर्थ इति मध्वगुरुस्तस्मिन्नादर आनन्दतीर्थादरः तेन सह वर्तत इति
सानन्दतीर्थादरः । शान्ताङ्गारेण रुचि कान्ति बिभर्ति । दण्डिनः संन्यासिनो मते विष्ठन् ; तन्मवे
सुमतीन्द्रादिमठभेदेने कादश्याद्युपवासस्य भेददर्शनात् । अलापि पूर्ववदलंकारः ॥ ५५ ॥
२९
त्वं वाचंयमतां दबासि सहसे शीतातपौ निश्चलः
किं चिन्नैव च याचसे भुवि यथाजातात्मना तिष्ठसि ।
प्राणाकर्षकृता यमेन नियमेनारूढ एवासि च
प्रायः कासर सार्वभौम नितरां योगीव संदृश्यसे ॥ ५६ ॥ आग
त्वमिति । हे कासर महिष नितरामत्यन्तं महायोगीव संदृश्यसे । कथं योगिसादृश्यम १
तत्राह - त्वं वाचंयमतां मौनित्वं दधासि; शीतातपौ शीतोष्णौ निश्चलः सन् सहसे । किंचिदष्य-
मिळषितं नैव याचसे । भुवि भूमौ यथाजातात्मना यथाजातरूपेण; 'अव्ययं विभक्ति- '
इत्यादिनाऽव्ययीभावः । जननकाले यादृशो दिगम्बरत्वादियुक्तस्तादृशवेषेणेति यावत् । तिष्ठसि ।
प्राणानां प्राणवायूनामाकर्षणं देहान्निःसरणं करोतीति प्राणाकर्षकृत्; तेन यमेन धर्मराजेन नियमे
नारूढः; कृतान्तस्य महिषवाहनत्वात् । योगिपक्षे वाचंयमतां मौनिताम्; निदिध्यासनात्मकं
1. स्पष्टै: 2. स्पः व्यक्तैः अत एव दृश्यैः किणैः