This page has not been fully proofread.

महिषशतकम्
 
मूर्धाभिषेकानुपपत्तिः, तस्य 'राजानमभिषिद्धति' इति शास्त्रान्तर्गत राजशब्दार्थत्वाभावात् । किं
स्वन्यदेव प्रजापालनादि राजधर्मप्रयोजकम्; तदेव राजपदप्रवृत्तिनिमित्तमपीति महिषस्यापि
मूर्धाभिषेको दुज्यत एवेति भावः । तदेवाह - य इति । य एत्र जनरलोकान् रक्षति पालयति
स स्वयं राजा भवतीति शेषः । रूढेर्योोगानः कान्तविषयत्वादिति भावः । नुष्यजातीयस्य राज-
शब्दार्थत्वं न संभवतीति मत्वाऽऽह – किमिति । किराता निषादा इव क्रूराः कठिनचित्ता:
शरारबो धातुका: 'शरारुर्घा तुको हिंस्रः' इत्यमरः । इमे दृश्यमाना भूमीपतयः भूपाः किमित्यर्थः ।
सार्वजनीन सर्वोपकारक, हे कासरपते ! त्वमेव नोऽस्माकं राजाऽसि । मनुष्यजातीयानां रखक-
श्वरूपयोगानाक्रान्तत्वादिति भावः । अत्र मीमांसका:- राजपदं न प्रजापालनप्रवृत्तिनिमित्तकम् ।
किंतु क्षत्रियत्वजातिनिमित्त कमेब, प्रजापालनस्याभिषेकोत्तरभावित्वेनाभिषेकविधावव 'राजान-
मभिषिञ्चति' इति राजशब्द प्रयोगात् । तस्य कर्मणीत्यधिकृत्य 'पत्यन्तपुरोहितादिभ्यो यक्' इति
स्मृत्या पुरोहितादिगणपठिताद्राजशब्दाद्यगादिविधानेन राज्यशब्दस्य राजशद प्रसिद्धिपूर्वकत्वा-
बगतेद्रविड प्रयोगाच राजशब्दः क्षत्रियवचन एत्र । निर्णीत चेदं भेदलक्षणे तृतीयचरणे 'अवेष्टौ
यज्ञसंयोगात्' इत्यधिकरणे श्रीमदाचार्यशबरस्वामिभिरिति कथं राजशब्दस्य श्रजापालननिमित्त
कत्वं कबिनाऽभ्यधायीति वदन्ति । अत्र ब्रूमः, राजशब्दस्य क्षत्रियपरत्वेन तदधिकरणे निर्णीत-
श्वेऽपि 'वाजानमभिषिश्चति' इत्यादिना विधीयमानराजधर्मप्रवृत्तौ प्रजापालनमेव निमित्तम्, न तु
जातिः, क्षत्रियमात्रस्याभिषेकादिधर्मप्रध्यापत्तेः । न चाधिकरणविरोधः । 'राजा राजसूयेन
स्वाराज्यकामो यजेत' इत्यक्ष राजशब्दस्य प्रजापालन पुक्त नत्त्रियपरत्वस्यैव तदधिकरणनिर्णीतत्वेन
सद्धिकरणे योगपरित्यागाभावात् । अस्तु वा वद्धिकरणे योगपरित्यागः, तथाऽभिषेकादि ; मिता-
खरायां 'व्यवहारान्नृपः पश्येद्राक्षा सभासदः कार्याः, अदण्ड्यान्दण्डयनराजा' इत्यादौ क्षत्त्रि
याइन्योऽपि राज्याधिकारं कुर्वन्नेतादृशधर्मेऽधिक्रियत इति स्पष्टमेव प्रजापालनस्यैव तद्धर्मव्यवहार-
परिच्छेदादिनिमित्तत्वमभिहितमित्यन्यन्त्र विस्तरः ॥ ५१ ॥
 
सानन्दं महिपीशतं रमयसे मूर्धाभिषिक्तोऽन्वहं
स्वं वालव्य जनावधूतिमसकृत्प्राप्नोषि श्रृङ्गान्त्रितः ।
किं च त्वां प्रकृतिं न मुखति तृणप्रायं जगत्पश्या से
 
स्वस्ति श्रीमहिषेन्द्र तेऽस्तु नियतं राजा त्वमेवासि नः ॥ ५२ ॥
महिषेन्द्र ते तब नियतं सार्वकालं स्वस्त्यस्तु शोभनं भवतु ।
स.देवस्याशी:प्रार्थनायां हेतुमाइ - राजा स्वमेवासि न इति । नोऽस्माकं त्वमेव राजाऽति;
 
सानन्द मिति । हे