This page has not been fully proofread.

महिषशत कम्
 
गुणानां त्वदीयशोभनगुणानामनुरूपं माहात्म्यं पूज्यत्वं कियद्वर्णयामि अवाक्मनसमोचर महिम
शालिनस्तव वर्णनं कर्तुं न शक्यत इत्यर्थः । मम अत्यादरादतिविश्वासात् अधिकप्रीत्या बहु
संतोषेण । अर्था: पदार्थाः वाक्यार्थाश्चाद्भुताः श्रेष्ठाः, तथा शब्दचयाः लिष्टशब्दसमुदायाः, सदा
सर्बकालमहमहमित्यप्रे पुरतः स्फुरन्ति प्रतिभान्ति, कामवार्थ शब्द वा स्वीकुर्यामीकुर्याम् ; कमिव
त्यजामि । शब्दार्थानां बहुप्रकारेण प्रतिभासमानानां कृत्स्नवर्णनं दुष्करमिति भावः । तथाच लोक-
रीत्या पश्ववमस्य महिषस्य वर्णयितुमशक्यत्त्रेऽपि स्वप्रतिभाया एतत्प्रबन्धरचन मत्यस्पमिति
 
भावः ॥ ४९ ॥
 
तिष्ठन्तु क्षितिपा घनान्धतमस प्राग्भार दूरी भव-
तकृत्या कृत्य विवेकमत्तहृदया नैवाश्रये तानहम् ।
एहि त्वं सरसीतटं तव पुनर्मूर्धाभिषेकं जलै-
रस्मत्संवस्थावनाय करवै राजेव संरक्षमाम् ॥ ५० ॥
 
तिष्ठन्स्विति । धनमेवान्घतमसं गाढान्धकारस्तस्य प्राग्भारेणाधिक्येन दूरीभवन् तिरो-
"
 
भूतो यः कृत्याकृत्यविवेकः सदसद्विवेकः विहितानुष्ठाननिषिद्धत्यागधीरिति यावत् तेन मच-
मुन्मत्तं हृदयं चित्तं येषां ते तथोक्ताः, क्षितिपा राजानः तिष्ठन्तु बर्तन्ताम् । तान्मन्तहृदय / नई
नैवाश्रये नेवानुसरामि । त्वं सरसीतटं कासारतीर मेह्यागच्छ तव पुनरस्मत्संवसथस्यास्मद्गृहस्या-
बनाय रक्षणाय जलैर्मूर्धाभिषेकं करवै करोमि । त्वमित्यनुषङ्गः; मां राजेव समीचीननृप इक रक्ष
 
पालय ॥ ५० ॥
 
भूपो भूप इतीव किं न्वनुगता जातिर्घटस्वादिव-
छूमावस्ति य एव रक्षति जनान् राजा स एव स्वयम् ।
 
कि भूमीपतयः शरारव इमे क्रूराः किराता इब
 
प्रायः सार्वजनीन कासरपते राजा स्वमेवासि नः ॥ ५१ ॥
 
ननु राजशब्दवाच्यक्षत्रियस्यैव 'राजानमभिषिञ्चति' इत्यभिषेकविधानात्कथं महिष-
स्य मूर्धाभिषेक इत्यत आह - भूप इति । भूपो भूपः, अयं भूमिपालोऽयं भूमिपाल इत्यनुगता
क्षत्रिय मात्रानुस्यूता घटत्वादिवद्धटत्वपटवादिजातिरिव; भूपत्त्रजातिरित्यर्थासभ्यते । भूमौ
भूलोके, राजधर्माभिषेकादिप्रयोजकतयेति शेषः । अस्ति किं नु १ वर्तते किम् ? नास्ती-
त्यर्थः । अनुगत जातिमङ्गीकृत्य तस्यैव राजधर्मामिक प्रवृत्ति प्रयोजनकत्वकारे महिषस्य
M.S. 4,