This page has not been fully proofread.

महिषशतकम्
 
क्षान्तं क्षान्तमथापि निर्दयममी काष्ठैः करीषैरपि
 
घ्नन्त्यङ्गेषु जनास्तदेतदखिलं दुःखं क्षमामूलकम् ।
इत्यालोच्य रुषेव सैरिभपते सीराञ्चलेन क्षमा-
मुन्मूल्य प्रसभं करोषि कणशस्तां नीरसस्योचिताम् ॥ ४७ ॥
 
क्षान्तं क्षान्तमिति । क्षान्तं श्रान्तं श्रान्त्वा क्षान्त्वा स्थितमिति शेषः । अथापि निर्दयं
यथा तथा अमी जनाः काठैः करीपैगमयैः शुष्कः 'गोविट् गोमयमस्त्रियाम् तत्तु शुष्कं करी-
षोऽस्त्री' इत्यमरः । अङ्गेष्ववयवेषु घ्नन्ति ताडयन्ति । तदेतदखिलं सर्वं दुःखं क्षमामूलकं भूमूलकम् ;
दण्डकरीषादेर्मृण्मयत्वादिति भावः । इत्येवं प्रकारेणालोच्य रुषेव कोपेनेव सीराञ्चलेन हलाप्रेण क्षमां
 
कणश: उन्मूल्य समूलमुत्पाट्य तां मां नीरसस्य रसरहितस्य तृणादेरुचितां योग्यां करोषि कुरुषे ।
मृदुर्हि परिभूयते' इति क्षमाशब्दशक्तिमूलध्वनिः । नीरेण वर्धमानसस्योचितां करोषीति भावः ॥
 
6
 
ये भुव्यपमृत्युना बत 'मृताः पूर्णायुषो जन्तवः
 
शिष्टेनैव तदायुषाऽतिमहता त्रैलोक्यरक्षाक्षमः ।
आयुर्दीर्घमरोगतामबिकलामङ्गेषु पुष्टिं वह
 
128
 
अस्मान्रक्ष कुलायराज नवधान्यानीह निष्पादयन् ॥ ४८ ॥
 
ये य इति । ये ये पूर्णायुषो दीर्घायुष्परिंमाणा जन्तवः भुवि भूलोके अपमृत्युना
अकालमृत्युना "मृताः मरणं प्राप्ताः । यतेति खेदे । अतिमहताऽतिविस्तृतेन तेषां मृतानां
सर्वेषामायुषा आयु:शेषेण त्रैलोक्यस्य भूर्भुवः सुवास्त्रिभुवनय रक्षायां क्षमः शक्तः दीर्घं चिरावस्थायि
आयुरायुष्यमरोगतां नीरोगतामविकलां समग्रां पुष्टिं देहवृद्धिं च वहन् नवधान्यानि निष्पादयन,
त्वमिति शेषः । हे लुलायप्रभो अस्मारक्ष पालय ॥ ४८ ॥
 
माहात्म्यं तव वर्णये कियदिति स्तुत्युक्तिवर्त्मातिगं
त्वत्कल्याणगुणानुरूपमधिकप्रीत्या ममात्यादरात् ।
अर्थाः शब्दचयाः सदाऽहमहमित्यग्रे म्फुरन्त्यद्भुताः
 
स्वीकुर्या कमिव त्यजामि कमिव श्रीमल्लुलायप्रभो ॥ ४९ ॥
माहात्म्यमिति । हे श्रीमन् लुलायप्रमो, इति पूर्वोक्तप्रकारेण वक्ष्यमाणप्रकारेण
चत्यर्थः। तब ते स्तुत्युक्तेः स्तोलोक्तः यद्वधर्म मार्गस्तदतिगमतिक्रम्य गतीति ताशं त्वत्कल्याण-
1, हृताः
 
हुता: अपहृताः ।