This page has not been fully proofread.

महिषशतकम्
 
पीत्वेति । सरोवरेषु कासारश्रेष्ठेषु वारि जलं पीत्वा, विपिने अरण्ये स्वैरं स्वच्छन्द
तृणानि चरित्वा भक्षयित्वा, आ कल्यादपि प्रातःकाल प्रभृति 'प्रत्यूषोऽहर्मुखं कल्यम्
" इत्यमरः ।
आ च अपराइविगमात् अपराह्ननिवृत्तिपर्यन्तं सर्वतोऽभितः नहीं भूमि कृष्ट्वा विलिय अनपाय-
मेव निरुपद्रवमेव यथा भवति तथा भुवनं जनम्, 'लोकस्तु भुवने जने', ये सैरिभाख्यप्रभवः
रक्षन्ति पालयन्ति, ताम्सैरिभान्संत्यज्य परित्यज्य दुर्घनिन एव गर्दभा रासभाः कृत्या कृत्यविवेक-
शून्यत्वेन रास भवन्निन्द्या इत्यर्थः । अज्ञो मूढो जनः सेवार्थमनुसरणार्थं मृगयते अन्वेपते । तं
जनं धिक् धिमिति निन्दायाम ॥ ४४ ॥
 
उद्दामद्विरदद्वयद्वयसता बर्बलं निस्तुलं
 
दुर्भेदाद्भुत फालभूमिदलनेष्वग्रेसरत्वं तथा ।
तत्सर्वं महिपावतंस कृषिभिः संसारपोषार्थिनो
 
मन्ये हन्त पचेलियासिंह पुनर्मद्भागधेयोन्नतिम् ॥ ४५ ॥
 
उद्दामेति । उद्दाममुन्नतं यद्विरदद्वयं गजद्वयं प्रमाणं यस्य स उद्दामद्विरदद्वयद्वय सः,
तस्य भावस्तत्ता ताम्, 'प्रमाणे द्वयस्दघ्नमात्रचः' इति द्वयसच् प्रत्ययः । निस्तुलमनुपमम्,
उचैरधिकं बलं तथा दुर्भेद: कठिनः अद्भुतः समीचीनो यः फालः कृषकलाङ्गलम्, तेन भूमि-
दलनेषु भूविशरणेषु अग्रेसरत्वं मुख्यत्वं तत्पूर्वोकं सर्वम् हे महिषावतंस, कृषिभिः कर्षणैः संसा-
रस्य पुत्रमित्रकलत्रादे: पोपं पालनमर्थयत इति तादृशस्य मे भागधेयस्य दैवस्योन्नतिमुच्छ्रयम् ;
'दैवं दिष्टं भागधेयम्' इत्यमरः । पचेलिमां परिपक्कां मन्ये । इन्तेत्याश्चर्ये ॥ ४५ ॥
 
मूर्ता किं तमसां छटा किमथवा नीलाचलो जङ्गमो
जीमूतः किमु संचरिष्णुरवनौ पाश्चतुर्भिर्युतः ।
 
इत्येवं किल तर्कयन्ति मसृणस्त्वं मांसलः श्यामलो
 
येषां सैरिभमण्डलेश्वर दृशां पन्थानमारोहसि ॥ ४६ ॥
 
मूर्तेति । तमसामन्धकाराणां छटा समुदायः मूर्ता किं मूर्तिमती किम् ? नीलाचलः
नीलपर्वतः जङ्गमः संचरिष्णुः किम् ? जीमूतो मेघः संचरिष्णुः संचारशीलः, अवनौ भूमौ
चतुर्भिः पादैर्युतः किमु ? हे सैरिभेश्वर, मसृणः कर्कशः, 'मसृणः कर्कशे जिग्बे' इति विश्वः ।
मांसलो मांसभरितः श्यामलो नीलवर्णस्त्वं येषां जनानां दृशां दृष्टीनां पन्थानं मार्गमारोहसि
प्राप्नोषि; त इति शेषः । ते इति पूर्वोकरीत्या तर्कयन्ति विचारयन्ति । संदेहालंकारः ॥ ४६ ॥