This page has not been fully proofread.

२२
 
महिषशतकम्
 
दुर्भूषास्यमपास्य नैककृतिना प्रारब्धलब्धेन च
 
प्रीतस्तिष्ठसि कासरेश्वर भवद्गार्हस्थ्यमेवाद्भुतम् ॥ ४२ ॥
 
स्वयेति । स्वीयोत्सङ्गे स्वाकप्रदेश समारूढमारुह्य स्थितम, अधिका बह्नी आसक्तिः
प्रीतिर्यस्य तथोक्तम, बालं शिशुमात्मनः सकाशाज्जायत इति तादृशं वहन्त्रमदया स्त्रिया महिष्येति
यावत् । मत्त इत्यपि ध्वन्यते । निचिन्ता निर्विचारा घीर्ज्ञानं यस्य तादृशः सुखं निद्रासि स्वपि
षि । दुर्भूपानां दुष्टप्रभूणामास्यं मुखमपास्य परित्यज्य, शूद्रप्रभुमुखावलोकनमकृत्वेत्यर्थः । नैका
अनेकप्रकारा कृतिः प्रयत्नो यस्य स तादृशः तेन प्रारब्धेन प्रारब्धकर्मणा लब्धं प्राप्तं तेन त्रीतः
संतुष्टः सन् तिष्ठसि वर्तसे । हे कासरेश्वर भवत्संबन्धि यद्गार्हस्थ्यं गृहस्थधर्मस्तदेवाद्भुतं श्रेष्ठम्,
अहो इत्याश्चर्ये ॥ ४२ ॥
 
नित्यं दुर्धरदुर्मुखादिसहितः शृङ्गाग्रष्टाचलः
 
प्रायस्त्वं महिपः स एवं भुवने हन्तावतीर्णः पुनः ।
किं तु प्राप्तयुगानुरूपचरितः सर्वोपकारी भवा-
न्भ्रातः कासरवर्यं निर्जरगणाः कुर्वन्तु ते मङ्गलम् ॥ ४३ ॥
 
9
 
नित्यमिति । नित्यं प्रत्यहम् दुर्धर दुर्मुखादिमिर सुरविशेषैः सहितो युक्तः, दुर्धरं
दुःखेनापि धर्तुमशक्यं यहुर्मुखं कुस्मितमुखं तेन युक्त इति प्रकृतार्थः । शृङ्गाप्रेण विषाणाप्रेण
कृष्ट: अचल: पर्वतो येन स तादृशः, त्वं स एव युगान्तरप्रसिद्ध महिषासुर एव पुनरपि प्रायः
प्रायेणावतीर्णोऽसि, अवतारं प्राप्तवानमि। कथं न लोकानुत्सादयसीत्यत आह - किं विति
किं त्वपि तु प्राप्त अधिगतो यो युगः कालः, गलबद्धदारुविशेषश्च, तस्यानुरूपं योग्यं चरितमा-
चरणं यस्य स तादृशः । तथा च कलियुगे महिषासुरोपद्रवं जनाःसा न शक्नुवन्तीति मत्वा
 
-
 
सौम्यरूपोऽसीत्यर्थः । प्रकृते लाङ्गलबद्धस्य लोकोपकार बिना किमन्यत्कार्यमिति भावः । भवान्सर्वो
पकारी सस्योत्पत्तिहेतुत्वात् भवतीति शेषः । हे भ्रातः, कासरवर्य, निर्जरगणा देवसमूहास्ते
सव मङ्गलं शुभं कुर्वन्तु तन्वन्तु, न तु महिषासुरबुद्धया द्वेषमिति भावः ॥ १३ ॥
 
1
 
पीत्वा वारि सरोवरेषु विपिने स्वैरं चरित्वा तृणा-
न्या कल्यादपि चापराह्नबिगमात्कृष्टा महीं सर्वतः ।
ये रक्षन्त्यनपायमेव भुवनं संत्यज्य तान्सैरिभा-
न्धिग्धिग्दुर्धनि गर्दभान्मृगयते सेवार्थमज्ञो जनः ॥ ४४ ॥