This page has not been fully proofread.

महिषातकम्
 
शेषे स्थण्डिल एव चानुदिवसं द्विखिनिमन्जस्यपि
 
प्राध्यं किं तव कासरेन्द्र यहपेश्वर्या समालम्बसे ॥ ४० ॥
 
पर्णानामिति । पर्णानां दलानां पयसां जलानां च नित्यं प्रत्यहमशनैर्भक्षणैः कालं समयं
क्षिपन्गमयन्बर्तसे तिष्ठसि । निष्कम्पः सन्निश्चलः सन् तपसि माघमासे 'तपा माघेऽथ फाल्गुने'
इत्यमरः । भूमावेव पर्णशालान्तरे उटजमध्ये निभृतं स्थितोऽमि वर्तसे। अनुदिवसं प्रतिदिनं
स्थण्डिल एव शेषे स्वपिषि । द्विस्त्रिर्द्वित्रिवारं निमज्जास स्नासि । हे कासरेन्द्र ऋषेश्चयां मुनिचर्यां
यद्यस्मात्समालम्बसे अङ्गीकरोषि ; सोऽपि ऋषि: पर्णजलायाहारं कृत्वा पर्णशालायां तपः
करोति । प्रतिदिनं प्रातमध्याह्नसायंकालेषु म्नाति । तस्मात्तव किं प्रार्थ्यम ? अभिउषितं किमस्तीति
शेषः ॥ ४० ॥
 
शीतं बारि सरोग एत्र हि पिवस्याकण्ठमत्यादरा-
त्संतापेऽप्य तनुप्रमोदभरितो न ग्राम्यधर्मोज्झितः ।
यच्चित्रं सुखसंनिपातरहितः पुष्णासि पुष्टिं तनौ
 
तन्मे ब्रूहि किमौषधं महिष रे श्लाघ्यं त्वया मक्षितम् ॥ ४१ ॥
 
1
 
श्रीतमिति । शीतं शीतलं वारि जलं सरः कासारं गच्छतीति सरोगः, आकण्ठं कण्ठ-
पर्यन्तमत्यादरात्पिबसि पासि । सरोगस्य रोगयुक्तस्व शीतोदकपानं संनिपातरोगप्रदमिति वैद्य
शास्त्र प्रसिद्धम् तु सरोग एव शीतं वारि पिबसि; तथाऽपि संनिपातरहित इत्योषधं गक्षित-
मित्यनुमीयत इत्यर्थः । संतापेऽपि सूर्यकिरणादिना ऽत्यन्तौष्मण्यप्यत नोर्मन्मथस्य प्रमोदेन संतोषेण
अरितः सन् ग्राम्यधर्मेण निधुवनेन 'व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्' इत्यमरः । नोज्झि-
तः न त्यक्तः । अत्र संतापसमये स्त्रीसङ्गमनिषेधो वैद्यके; यथा- 'तरुणज्यरमध्ये तु युवतीसङ्ग
मेन च । जायते दारुणो दोषो ह्यङ्गवैकल्यकम्पदः ॥ वक्षोऽन्तरे च संतापः प्रलापोत्थापसंभ्रमः ।
पाणिपादतले शैत्यं दोषः स्त्रीसङ्गजो भवेत् ॥ तदूरुजेन रक्तेन नेत्रयो रञ्जयेत्कणान् । सद्यस्तदोष-
शान्ति: स्यादात्रेयमुनिभाषितम् ॥' इति । यद्यस्मात्सुखसंनिपातेन रोगविशेषेण रहितः सन् तनौ
शरीरे पुष्टिं वृद्धिं पुष्णासि चित्रमित्याञ्चर्ये । तत्तस्मात् रे महिष किं लाव्यं प्रशस्त मौषधं सेवि-
1
 
तं पथ्यादिना भक्षितं तन्मे ब्रूहि वद ॥ ४१ ॥
 
स्वीयोत्सङ्गसमाधिरूढमाधिकासक्ति वहनात्मजं
 
बालं च प्रमदान्वितः सुखमहो निद्रासि निश्चिन्तवीः ।