This page has not been fully proofread.

महिषात कम्
 
दुर्वाणीकस मुद्यदुद्भटभटश्रेणी करव्यामृत-
द्राघीयः स्फुटधूमवर्तिविगलद्धमान्धकारावृते ।
तनिष्ठीवन पूतिगन्धभरिते भूपालबाह्याङ्गणे
 
वासक्लेशहराय सैरिभपते मन्नाथ तुभ्यं नमः ॥ ३८ ॥
 
दुर्वार्णांकेति । मन्नाथ मद्रक्षक सैरिभपते, दुर्बाणीका: क्रूरबचना: समुद्यन्त: आगन्तृ-
जामधिक्षेपे दत्तोद्योगाः, उद्घटा उद्घता ये भटाः भृत्याः शस्त्रधारिणस्तेषां या श्रेणी स्तिस्या
ये कराः; श्रेणीशब्देन श्रेणीप्रविष्टा लक्ष्यन्ते । तेषु व्यावृता विस्तारिता द्राघीयमी दीर्घा स्फुटा
प्रकाशमाना, अग्निवग्धेति यावत् । धूमवर्तिः धूमपानार्थकल्पिता दशा तस्याः सकाशाद्विगलन्नि-
सरन्यो धूमः, तस्माद्योऽन्धकार: ध्वान्तं, तेनावृते व्याप्ते, तेषां भटानां निष्ठीवनेनाम्बूकृतेन
यः पूतिगन्धः दुर्गन्धः, तेन भरि व्याप्ते, भूपालनां राज्ञां बाह्याङ्गणे बाह्यप्रदेश योवास: निवा-
सः तस्मिन्, पण्डितानां दुष्टराजगृहे शोघ्रप्रवेशाभावेन बाह्यप्रदेशे निरुक्तगुणविशिष्टे चिरावास-
संभवादिति भावः । क्लेशहराय दुःखहारिणे तुभ्यं नमः । अस्विति शेषः । कृषिकर्मव्य प्रता-
नां किं राजाश्रयणदुःखेनति भावः ॥ ३८ ॥
 
केदारे महिषीमनोजगृहमाघ्रायोन्नमय्याननं
 
दन्तान्किचिदभिप्रदर्श्य विकृतं कूजन्खुरैः मां खनन्
प्रत्यग्रायितसूरणाङ्करनिभं तत्किचिदुज्जृम्भय-
नानन्दं महिषेन्द्र निर्विशसि यत्तद्द्रष्टृनेत्रोत्सवः ॥ ३९ ॥
 
केदार इति । केदारे शाल्यादिक्षेत्रे महिष्या मनोजगृहं मन्मथमन्दिरमाघाय आनं
मुखमुन्नमय्य दन्तान्दशनान् किंचिदभिप्रदये दर्शयित्वा विकृतं यथा तथा कूजन कोशन्
 
3
 
क्ष्मां भूमिं खुरैः पदाप्रैः खनन्दलयन् प्रत्यायितस्य नवोद्गतस्य सूरणस्य कन्दविशेषस्य 'अर्शोन्नः
सूरणः कन्दो गण्डीरस्तु समठिला' इत्यमरः । अङ्कुरनिभमङ्करसदृशं तादृशं तत्; स्वीयलिङ्ग-
मित्यर्थः । किंचिदुज्जृम्भयन् बहिः कुर्बन हे महिषेन्द्र त्वमानन्दं संतोष निर्विशास
प्राप्नोषीति यत्तद्द्रष्टॄणां नेत्राणामुत्सवः संतोषः । अनेन च भवतैव जनानां नेत्रानन्दोऽपीति
 
गावः ॥ ३५ ॥
 
पर्णानां पयसां च नित्यमशनैः कालं विपन्वर्त से
 
निष्कम्पस्तपसि स्थितोऽसि निभृतं त्वं पर्णशालान्तरे ।