This page has not been fully proofread.

महिषशतकम्
 
मृष्टान्नस्य भक्ष्यभोज्यादियुक्तान्नस्य एकवदान्य दातृश्रेष्ठ हे सैरिभपते घण्टाया: प्रीबाबद्धाया घोषः
शब्दः पुरःसरः पूर्ववृत्तिर्यत्मिन्कर्मणि तद्यथा तथा सम्यक्समीचीनां प्रतिज्ञां वितनुषे करोषीव ।
उत्प्रेक्षालंकारः ॥ ३५ ॥
 
ख्यातानाहरतु ऋतूनपि शतं क्रूरं विधत्तां तपो
 
योगाभ्यासमुतु वा कलयतां तीर्थाटनं वा पुनः ।
त्वत्संदर्शनमन्तरा न महिप प्राप्नोति लोकः शुभा-
न्हंहो पश्चचमोऽपि सैरिभ गुणैः श्लाघ्योऽसि लोकोत्तरैः ॥ ३६ ॥
 
ख्यातानिति ॥ ख्यातान् प्रसिद्धान् शतं शतसंख्याकान् क्रतून ज्योतिष्टोमादीन आहरतु
करोतु । करं दुश्वरं तपः नियमादि विधत्तामनुष्ठीयताम् । योगस्याष्टाङ्गयुक्तचित्तवृत्तिनिरोधस्य
अभ्यासमावृत्तिमुपैंतु प्राप्नोतु वा । तीथीनं तीर्थस्य धनुष्कोटिप्रयागादितीर्थस्याटनं स्नानं पुनः
मुहुः कलयतां क्रियताम् । तथाऽपति शेषः । हे सैरिभ, त्वत्संदर्शनं त्वत्सहवासमन्तरा विना
लोको जनः शुभान् यज्ञदानभोगादीन् न प्राप्नोति । हे महिष त्वं पश्ववमोऽपि पशुषु चतुष्पात्सु
अधमोऽपि निकृष्टोऽपि लोकोत्तरैः भुवनश्रेष्ठैः गुणेः सस्योत्पत्तिद्वारा लोकजीवनयागोपयुक्तह वि-
र्निष्पादनादिभिः श्लाघ्योऽसि । हंहो इत्याश्चर्ये । स्वभावतो निकृष्टोऽपि गुणैरुत्कृष्टो भवतीत्यर्थः ॥
 
त्वामादौ गणयन्ति मृढगणनप्रस्तावनायां जना-
स्ते मृढा महिमाविदस्तव न ते मृष्यामि तां वाच्यताम् ।
सस्योत्पचिनिदान मस्यथ हविर्मूलं सुराणामपि
 
ब्रूमः किं बहु कासरेन्द्र जगतामाधारतां गाहसे ॥ ३७ ॥
 
त्वामिति । मूढानां मुग्धानां यद्गणनं संख्यानं तस्य प्रस्तावनायां प्रसक्तो आदौ
 
प्रथमं त्वां भवन्तं गणयन्ति मन्यन्ते । ते गणका मूढास्तव महिमाविदः महिम्नः माहात्म्यस्य
 
1
 
अविदः ज्ञातारो न भवन्ति । साध्याभाववदवृत्तित्वम्, घटानधिकरणमित्यादिवत् नमो मध्यनिवेशः
साधुः । यद्वा महिशविद् इति पाठः । हे महिष तब अविदः त्वदनभिज्ञास्त्वद्गुणानभिज्ञा इति
तदर्थः । ते तव तां वाच्यतां निन्यताम् अहमिति शेषः । न मृष्यामि न सहे। सस्यानां
शाल्यादीनामुत्पत्तौ जनने निदानमादिकारणमसि । अथापि च सुराणामिन्द्रादीनां हविषां
ब्रीहिदविसर्पिः प्रभृतीनां मूलं कारणम् ; असीत्यनुपङ्गः / जगतां भूस्वलाक प्रभृतीनामाधारतां पार-
कतां गाइसे प्राप्नोषि। किं ब्रमः किं वदामः काव्यलिङ्गभलंकारः ॥ २७ ॥