महिषशतकम् /33
This page has not been fully proofread.
महिषशतकम्
निर्व्याजोपकृतिप्रवीणमनसो मानेन लब्बोनतेः
सर्व ते महिषाधिराज तदिदं भूषाविशेष पते ॥ ३३।
गोष्ठमिति । गोष्ठं बन्धनस्थानम, नृपमन्दिरं राजगृहं, ते शकृदपि विष्ठाऽपि कस्तूरिका
मृगमदः, वपुषः शरीरस्य पृथ्व्या भूमेर्थे रेणवो रजांसि तेषां समुत्करः समूहः स एव प्रत्य-
ग्रपिष्टातकः नूतनपटवासक: 'पिात: पटवासकः' इत्यमरः । निर्वाजा निर्निमित्ता या उपकृति-
रुपकार स्तस्मिन्प्रवीण मतिसमर्थं मनो यस्य स तथोक्तः तस्य, मानेन संभावनेन लब्धा प्राप्ता
उन्नतिः प्रतिष्ठा चस्य तादृशस्य हे महिषाविराज ते सर्वमिदं शद्धल्यादिकं भूषा विशेषायते भूषा-
विशेष इवाचरति ॥ ३३ ॥
हा जानुद्वयसे दुरुद्धरपदे पके बहॅल्लाङ्गलं
पश्चाच्छूद्रकरप्रतोद घटनासंजातभृरिव्रणः ।
क्लेशं यासि हि कोशपूरणकृते राज्ञः स तु द्रुह्यति
ब्रूमः किं महिपेन्द्र ते शिव शिव त्वद्भागसर्वस्वहृत् ॥ ३४ ॥
6
हेति । जानुद्वयसे जानुध्ने प्रमाणे द्वयसन्मात्रचः इति द्वयसच् प्रत्ययः ।
दुरुद्धरं दुःखेनापि उद्धर्तुमशक्यं पदमङ्घ्रियरिंमस्तादृशे पकने लाङ्गलं हलं वहन् पश्चात्पृष्ठभागे
शूद्रकरेण कर्षकहस्तेन प्रतोदस्य प्राजनस्य प्राजनं तोदनं तोत्रम् इत्यमरः । घटनया संयो..
जनेन संजातमुत्पन्नं भूरि व्रणं यस्य स तथोक्तः त्वं राज्ञो नृपस्य कोशस्य धनधान्यामारस्य पूरण-
कृते वृद्धयर्थं क्लेशं दुःखं यासि प्राप्नोषि। स तु राजा तु त्वद्भागसर्वस्वं कृषीवलपञ्चभागान्हरतीति
तादृशः सन् हे महिषेन्द्र ते तुभ्यं द्रुह्यति । 'क्रुधद्रुह...' इत्यादिना चतुर्थी । शिव शिवेत्याश्चर्ये। किं
ब्रूमः; अतो महोपकारिणस्तव सर्वस्वहरणरूपद्रोह करणं न सांप्रतमिति भावः ॥ ३४ ॥
मूढाः केचिदुपाश्रयन्ति धनिकान्क्लिश्यन्तु नश्यन्तु वा
यो मामाश्रयते तमेव विभृयामात्मप्रयासैरिति ।
मृष्टान्नैकवदान्य सैरिभपते हुंभारवण्याजतो
घण्टाघोषपुरःसरं वितनुषे सम्यकप्रतिज्ञामपि ॥ ३५ ॥
मूढा इति । केचिन्मूढा मुग्धा धनिकानुपाश्रयन्ति अनुवर्तन्ते, त इति शेषः ।
क्लृिश्यन्तु ख्रिचन्तु नश्यन्तु वा । यो नरः मामाश्रय अनुसरति तं नरम, आत्मनः स्वस्य प्रयासैः
श्रमैः कर्षणभारबहनादिभिर्विभृयां बिभर्मि इत्यनेन प्रकारेण हुंभारवस्य शब्दविशेषस्य व्याजतश्छलतः