This page has not been fully proofread.

महिषशत कम्
 
द्रव्याणां सुवर्णादीनां चयैः समुदायैः सह बहबो ऽनेकप्रकारा श्रीहयः शास्यादयः पतन्ति बसन्ति ।
कर्षकाणां कोशवृद्धिर्भवतीत्यर्थः । इत्थमनेन प्रकारेण सर्वेषां विश्वेषां जनानामवने रक्षणे प्रतिभुवे
लनकाय दीनानां दरिद्राणां या आवली समूहः तस्या बन्धवे हितकराय भवते तुभ्यं भूयस्योऽधि-
का आशिष आशीर्वादा अचेदानीं भूयासुः भवन्तु; नीरोगदृढगात्रत्वाद्यर्थमिति भावः ॥ ३० ॥
नित्यं हन्त विवर्धमान सुमहादुष्प्रभवोत्साहव-
दुर्भुपालक्कुपालवच्युतरुशत्या कर्णनोदीर्णयोः ।
निर्व्याजं मम कर्णयोस्त्वममृतं हुंकारवं चाकृथा
 
दिष्टया संप्रति सीदसीह महिष क्षेत्रेषु कृष्युन्मुखः ॥ ३१ ॥
 
नित्यमिति । नित्यं प्रत्यहम्, विशेषेण वर्धमानौ उपचीयमानौ सुमहान्तौ अतिबृह-
न्तौ दुष्प्राभवोत्साहौ दुष्प्रभुत्वदुरभिमानौ तद्वन्तो ये दुर्भूपाला दुष्टा राजानस्तेषां या कृपा करुणा
तस्या लबो लेशस्तेन च्युता रहिता या रुशती क्रूरवाक्, 'रुशती वागकल्याणी इत्यमरः । तस्या
आकर्णनेन श्रवणेन उदीर्ण योन्नियोर्मम कर्णयोः श्रवणयोर्निर्थ्याजं यथा तथा अमृतं सुखप्रदम्,
हुंकारवं शब्दविशेषमकथा: कृतवान् । हे महिष दिष्टया देवेन संप्रतीदानी क्षेत्रेषु केदारेषु कृष्यां
कर्षणे उन्मुख उत्सुकः सन्सीदमि किश्यसि च ॥ ३१ ॥
 
मूढा बासघनोष्मभीष्मवदनक्ष्मापालपाशाङ्गणे-
ब्वाशापाशविकृष्य माणहृदया व्यर्था स्थिति तन्वते ।
अस्मद्रूपतिमाश्रयन्ति न बुधाः कामप्रदं सैरिभं
 
योऽस्मानक्षति रक्षति क्षितिफलैः सौम्यः समस्तैरपि ॥ ३२ ॥
 
मूढा इति । मूढा मोहं प्राप्ता आभासा निन्दिताश्च ये, बनेन द्रव्येण य ऊष्मा क्रोधाग्निः
तेन भीष्मं वदतं मुखं येषां ते तथोक्ताः, ये क्षमापालपाशाः कुत्सितप्रभवः; 'याध्ये पाशप्' इति
कुत्सितार्थे पाशप् । तेषामङ्गणेषु चत्वरेषु आशेव इच्छेव पाश: रज्जुस्तेन विकृष्यमाणं नीयमानं
हृदयमन्तःकरणं येषां ते तथोक्ताः बुधाः व्यर्थां निष्प्रयोजनां स्थितिं तन्वते । यो महिषप्रभुः समस्तैः
कृत्स्नैः क्षितिफलैर्धान्यादिभिः अश्नति निरुपद्रवं यथा तथा सौम्य: अक्रोधः सन् रक्षति पालयति, तं
कामानामिष्टानां धनधान्यादीनां प्रदं प्रकर्षेण दातारमस्मद्भुपतिमस्मद्राजानं नाश्रयन्ति नानुवर्तन्ते ॥
 

 
गोष्ठं ते नृपमन्दिरं शकदपि प्रायेण कस्तूरिका
पृथ्वीरेणु समुत्करस्तु वपुषः प्रत्यग्रपिष्टातकः ।
 
M, B. 3,