महिषशतकम् /31
This page has not been fully proofread.
महिषशतकम्
स्वळदोषास्त्वयि न सन्तीत्याह द्वाभ्याम्-
न ब्रूषे परुषं न जल्पसि मृषावादात्र गर्वोन्नति
घत्से प्रस्तुत लाङ्गले नियमितः स्वं क्लेशयित्वा वपुः
मर्त्यानामनुपाधिजीवनकृते त्वं कल्पसे कासर
त्वय्येवं सति दुर्नृपाननुसरन्हन्तास्म्यहं वञ्चितः ॥ २८ ॥
न ब्रूष इति । परुषं क्रूरं न ब्रूषेन बदसि । मृषावादान् अनृतोक्ती: न जल्पसि न
कथयसि । गर्वेणाहंकारेण उन्नतिमौद्धये न घत्से न वहसि । प्रत्युत अपि तु लाङ्गले हले
नियमितः बद्धः सन स्वं वपुः स्वं शरीरं वेशयित्वा खेदयित्वा मल्योनां मनुष्याणाम् अनुपाधि-
निरुपद्रवं यज्जीवनं तत्कृते तदर्थ त्वं कल्पसे समर्थो भवसि । हे कासर एवं पूर्वोक्तरीत्या त्वयि
सति विद्यमाने दुर्नृपान दुष्टप्रभूननुसरन् अहं वञ्चितः, देवेनेति शेषः । 'सिद्धमन्नं परित्यज्य
भिक्षामटति दुर्मतिः' इति न्यायादिति भावः ॥ २८ ॥
पैशुन्यं न हि कर्णगामि भवतो नाचस्यये वञ्चना
मेकाकारतयैव तिष्ठसि सखे सर्वास्ववस्थास्वपि ।
भूपालैरलमव्यवस्थविषयैर्दिष्टयाऽद्य लब्धोऽसि नः
श्रीमत्कासरसार्वभौम भवता नाथेन मोदामहे ॥ २९ ॥
पैशुन्यमिति । हे श्रीमत्कासर सार्वभौम पैशुन्यं पिशुनोक्तिः भवतस्तव कर्णगामिन,
भवतीति शेषः । खलवचनं न शृणोषीत्यर्थः । अये महिष ! वञ्चनामविसंधानं नाश्चसि न करोषि
एकाकारतयैव एकरूपेणैव सर्वास्ववस्थास्वपि प्रत्यक्षपरोक्षादिदशास्वपि तिष्ठसि वर्तसे । अव्य-
वस्थविषयैः नास्ति व्यवस्था मर्यादा येषां ते अव्यवस्थाः अतीतमर्यादा विषया आचारा येषां
ते तथोक्तैः भूपालैः अलं पर्याप्तम् ; हे सखे दिष्ट्या दैवेन नोऽस्माभिः लब्धोऽसि । अद्ये-
दानीं भवता त्वया नाथेन मोदामहे हृष्यामः ॥ २९ ॥
न स्वप्नेऽपि दरिद्रता प्रसजति त्वामाश्रितानां नृणां
कोशे द्रव्यचयैः पतन्ति बहवः शाल्यादयो बीयः ।
इत्थं सर्वजनावनप्रतिभ्रुवे दीनावलीबन्धवे
भूयस्यो महिषाधिराज भवते भ्यासुरवाशिषः ॥ ३० ॥
न स्वप्न इति । हे महिषाधिराज, त्वामाश्रितानां त्वदुपजीविनां नृणां पुरुषाणाम्,
स्वप्नेऽपि स्वप्नदशायामपि दरिद्रता अकिंचनत्वं न प्रसजति न लगति । कोशे धनधान्यागारे