This page has not been fully proofread.

महिषशतकम्
 
इत्यन्योन्यकृतोपकारमुदितावावामिह द्वावाप
 
स्थास्थावः शरदां शतं द्रुतममी नश्यन्तु नः शत्रवः ॥ २५ ॥
 
त्वं बद्ध इति । मद्गुणैमत्संबन्धिपाशैर्बद्धोऽसि । अहं चाहमपि त्वगुणैस्त्वदीयधन-
धान्यसंपादनरूपैर्बद्धो वश्यः । हे सैरिभोत्तमसखे सैरिभवर मिल, त्वं मां रक्षसि अहं त्वां रक्षामि
इत्येवं प्रकारेणान्योन्यकृतैः परस्पररचितैरुपकारमुदितो संतुष्टौ । आवां द्वावपि शरदां वत्सराणां
शतं स्थास्यावः चिरं जीवावः । नः अस्माकं शत्रवो वैरिणः द्रुतं शीघ्रं नश्यन्तु म्रियन्ताम् ॥ २५ ॥
 
एवं दुष्टाधिकारिणां स्वरूपं वर्णयित्वा कृषिमुख्यसाधनं महिषमेव स्तोत्यष्टादशभिः
स्तोतुं त्वां महिषाधिराज सुगुणं दीदांसते धीर्मम
 
त्वं च स्तुत्यतया प्रबन्धवचसां योग्योऽसि किं नन्वहम् ।
चित्तोन्मच नरेन्द्रदुर्गुणधटामिथ्यास्तवोपक्रमै-
र्वाग्भिः पर्युषिताभिरद्य भवतः कुर्वे नुतिं क्षम्यताम् ॥ २६ ॥
 
स्तोतुमिति । हे महिषाधिराज, सुगुणमव्याजोपकारिणं त्वां स्तोतुं प्रशंसितुं मम
भीर्बुद्धिः दीदांसते इच्छति । त्वं च त्वमपि प्रबन्धवचसां ग्रन्थवचनानां स्तुत्यतया शंसनीयत्वेन
योग्योऽसि किंतु । अन्वहं प्रत्यहं वित्तेन धनेन उन्मत्ता भ्रान्ताः कृत्याकृत्यविवेन्या इति
यावत् । नरेन्द्रा राजनः तेषां ये दुर्गुणाः खलजनसंप्रहदुरभिमानित्वादयः तेषां या घटा समूहस्तस्या
यो मिथ्यास्तबोऽसत्प्रस्तुतिः तस्योपक्रमैः श्रमैः पर्युषिताभिः कलुषिताभिः वाग्भिर्वचनैः विंस्तुतिं
कुर्बे करोमि । क्षम्यताम्, अपराध इति शेषः । महाप्रभूणां नरस्तुत्यनन्तरं स्तुतेरयुक्तत्वात जनिवा-
पराधः संभवतीति भावः ॥ २६ ॥
 
तानेव सुगुणानाह-
सम्बाकारुविषाणशित्तिरियदा मुखालिशम्बालिका-
-
 
सूचीकारुविशेषकोद्रवतिलश्यामाकगोधूमकान् ।
 
त्वं सिद्धार्थकुलुत्थमृद्गतु वरीनिष्पावमाषादिकं
 
तं तं कालमुपेत्य सैरिभपते निष्पाद्य संरक्ष नः ॥ २७ ॥
 
सम्बेति । कारुविशेषेत्यन्तं द्राविड भाषाप्रसिद्ध धान्यविशेषाः । सिद्धार्थः श्वेतपः
'सिद्धार्थस्स्वेष धवलः' इत्यमरः । अन्यत्स्पष्टम् । तं तं कालं तत्तद्धान्योत्पत्तिसमयमुपेल प्राध्य
पूर्वोकधान्यविशेषान्निष्पाद्य जनयित्वा हे कासरपते, त्वं नाऽस्मान्रक्ष पाळय ॥ २७ ॥