महिषशतकम् /28
This page has not been fully proofread.
महिषशतकम्
तृण्यादानजलावगाहनत
नूसंघर्षणादिक्रमैः
कामं सैरिभराजराज भवतः सेवामकार्षं चिरम् ।
एताव हमर्थये पितृपतिं देवं त्वदारोहिणं
क्षिप्रं प्रापय संनिधिं ननु सुभेदारस्य मोहिणः ॥ २० ॥
तृण्येति । तृणानां समूहस्तृण्या; समूहार्थे यत्प्रत्ययः । तस्या दानं च जलावगाहनं च
तन्वाः शरीरस्य संघर्षणं च, कर्दमादिनिरासेन लक्ष्णीकरणमित्यर्थः । आदिशब्देन जल-
पानादिकं गृह्यते । तेषां ये क्रमाः पौर्वापर्याणि तैः, हे सैरिभराजराज, भवतः चिरं बहुकाल सेवा-
-
मकार्षं कृतवान् । ततः किं कार्यमित्याशङ्क्याह - अहं तु एतावदतिस्वल्पमर्थये याचे, त्वदारोहिणं
त्वदारूढं पितृपतिं यमं मोहिणः मम द्रोहं कुर्वतः सुभेदारस्य संनिधि समीपं क्षिप्रं द्रुतं नय
प्रापय । त्वत्संपादितघनापहारेण त्वद्रोहे निरतस्याधिकारिषोऽपकारः कर्तव्य एवेत्यर्थः ॥ २० ॥
क्षुद्धाघां यदि यासि कासरपते तहींदमाकर्ण्यता-
मस्माभिर्हि तृणीकृतान्भुवि सुभेदारान्सुखं भक्षय ।
निःसारानपराधले शरद्दितानेतान्पलालोत्करा-
नित्यं भक्षयता त्वया क इव हा लोकोपकारो भवेत् ॥ २१ ॥
क्षुदिति । हे कासरपते क्षुद्वाघां बुभुक्षाजनितश्रमं यदि यासि प्राप्नोषि वहींदं वक्ष्य-
माणमाकर्ण्यतां श्रूयताम् । अस्माभिस्तृणीकृतान् तृणतया गणितान सुभेदारानधिकारिविशेषान्
सुखमनायासं यथा तथा भक्षय तव तृणाशित्वादिति भावः । तथा सत्येव महालोकोपकार
इत्याह – निःसारान्नीरसान् अपराधस्य द्रोहस्य लेशेन कणेन रहितान् शून्यानेतान्पलालोत्करान्
तृणसमूहान नित्वं सार्वकालं भक्षयता त्वया लोकोपकारः क इव, कृत इति शेषः, भवेत् न
कोऽपीत्यर्थः । निरपराधितृणसमूहभक्षणापेक्षया लोकद्रोह जागरूकखल भक्षणेन लोकोपकारो महा-
म्भवेदिति भावः । काव्यटिङ्गमलंकारः ॥ २१ ॥
कर्षकर्ष महर्निशं वसुमत किश्वासि कि कासर
त्वं सभ्यैरधुन तनैर्नृपसभं साकं सुखेनावस ।
न ज्ञानं न च मेऽस्ति कौशलमिति व्यर्थां मर्ति मा कृथा-
स्त्वत्तो मूढतमा इमे भवसि हि त्वं तेषु वाचस्पतिः ॥ २२ ॥
कर्षकर्षमिति । वसुमत भूमि कर्षंकर्षं कृष्ट्वा कृष्ट्वा अहर्निशमहोरात्रं किं विश्वासि किमर्थ
विद्यसे। अधुनातनैौरदानींतनेः सभ्यैः सभां प्रविष्टैः सह नृपस्य राज्ञः सभां नृपसभाम् 'सभा राजा-