This page has not been fully proofread.

नात, हे महिषेन्द्र तव स्थूलो महान्योऽण्डकोशस्तस्य वृषणस्येक्षणं दर्शनं वरं श्रेष्ठम् । तत्र
हेतुमाह - येन कारणेन अण्डकोशेक्षणेन प्रायेण प्रायशः मृष्टाशनमुत्तमभोजनं लभ्यते प्राप्यते,
जनैरिति शेषः । लाङ्गलहस्ताः कर्षका हि महिषस्य पृष्ठभागं पश्यन्तः कर्षन्ति कृप्यार्जितान्नसूपशाक-
शाल्योदनादिकं सुखेन भुञ्जते, न तु दुष्टधनिकाश्रिता इति भावः । अत्राप्यण्डकोशेक्षणं बरमित्यत्र
हेतूपन्यासात्कायलिङ्ग मलंकारः ॥ १७ ॥
 
देहं स्वं परिदग्ध्य यद्धि भवता धान्यं धनं वाऽऽर्जितं
तत्सर्व प्रसभं हरन्ति हि सुभेदाराः स्वकीयं यथा ।
हेतुस्तत्र किलायमेव महिष ज्ञातो मया श्रूयतां
 
पुत्रा एव पितुर्हरन्ति हि धनं प्रेम्णा बलाद्वाऽखिलम् ॥ १४ ॥
 
देहमिति । स्वं देहं शरीरं परिदग्ध्य अतीव केशयित्वा भवता त्वया हि यद्धनं धान्यं
बाऽऽर्जित संपादित तत्सर्व स्वकीयं यथा स्वपित्राऽऽर्जितमिव सुभेदाराः प्रसभं बलात्कारेण हरम्ति ।
तत्र हरणे हेतुरयमेव वक्ष्यमाण एव किल मया ज्ञातः । हे महिष श्रूयताम् हि यस्मात्कारणात् पुत्रा
एव पितुर्धनमखिलं प्रेम्णा प्रीत्या वा बलाद्वा हरन्ति गृह्णन्ति । तस्मात्वत्पुत्रा एते सुभेदारास्त्वत्सं-
पादितधनहारित्वादिति भावः ॥ १८ ॥
 
ति
 
उन्मत्चा द्रविणाधिकारवशतः स्तम्भंगता दुर्गुणैः
 
संजाता वृषलेशतो विरचितान्यायाविभूत्यादृताः ।
 
केचितश्च संप्रति सुभेदाराधमाः कासर
 
ज्येष्ठाः किं भवतो वद त्वमथ वा सत्यं कनिष्ठ । इमे ॥ १९ ॥
 
उन्मत्ता इति । द्रविणं द्रव्यमधिकारो देशाधिकारः तयोर्वशत उन्मत्ता उद्दामाः दुर्गुणे-
ईम्भाहंकारादिभिः स्तम्भंगताः स्तब्धाः कृत्यत्कृत्यविवेकशून्या इत्यर्थः । वृषलानां शूद्राणामीशत:
श्रेष्ठात् संजाता उत्पन्नाः विरचितान्यायाश्च कृतदुर्नयाश्च ते अतिभूत्या विरुद्वैश्वर्येण लोकविद्वेषं
संपाद्येत्यर्थः । आहता युक्ताश्च तादृशाः, शृङ्गं विषाणमिति वाद्यविशेषं बिभ्रतीति तादृशाः
संप्रति नोऽधिकारीिवेशेषाश्च सुभेदाराश्चतेषामधमा नीचा: केचित् हे कासर भवतो ज्येष्ठाः
किमिमे खलाः, अथवा कनिष्ठाः ? महिषपक्षे द्रविणे बले अधिकारवशात् प्राधान्यवशात् दुर्गुणैर्दुष्पा शैः
स्तम्भं बन्धनशङ्कुविशेषं गताः प्राप्ताः । विरचितः अन्येषां स्वपालककर्षकाणामायः वित्तं येन स
तथोक्तः । विभूत्या ऐश्वर्येण निमित्तन आदृतोऽङ्गीकृतः शृङ्गं विषाणं बिभ्रतीति तादृश इति
शब्दशक्तिमूलध्वनिः । न च ऋषे: शङ्कचः, अभिधायाः खलाधिका रिमात्र विश्रान्तत्वात् ।
मद्दोऽलंकारः ॥ १९ ॥