महिषशतकम् /26
This page has not been fully proofread.
महिषशत कम्
विद्येति । विद्यया वेदशास्त्रात्मिकया जीवनस्य शास्त्रीयस्य याजनाध्यापनरूपस्य कुण्ठनेन
विशेन च कृषावालम्बितायामङ्गीकृतायां सत्यां चिराद्वहुकालात् आ समन्तात्पके फलिते कणिशे
सस्ममञ्जर्याम्। 'कणिशं सस्यमञ्जरी' इत्यमरः । कुतोऽपि देशात् पिशुनाः पैशुन्येन जीवन्तः केदारं
क्षेत्रमावृण्वते समन्ततः परिवेष्टन्ते । किं वच्मि किं वक्ष्यामि । हा इति खेदे । के ते पिशुना
इत्याकाङ्क्षायामाह – सुभाहवा लुमणियमित्यादयो दक्षिणदेशे अधिकारसंज्ञाः प्रसिद्धाः । निर्दया
निष्करुणा एतत्संज्ञकाधिकारिण आवृण्वत इति पूर्वेण संबन्धः ॥ १५ ॥
।
मुग्धान्धिरधनिकान्तमामद मषीदिग्धान्विदग्धानहो
जग्धौ यन्धिषु दग्धबुद्धिविभवास्निग्धैः खलैरन्वहम् ।
धन्यं सैरिममेकमेव भुवने मन्ये किमन्यैर्नृपे-
यो धान्यैश्च धनैश्च रक्षति जनान्सर्वोपकारक्षमः ॥ १६ ॥
मुग्धानिति । रमया लक्ष्म्या यो मदो गर्वः स एव मषी मलिनं वस्तु तथा दिग्धाशकुरिवाः,
धनमदेन तिरोहितान्तःकरणा इति यावत् । तादृशान् अन्वहं प्रत्यहं जग्धौ भुक्तौ, यन्धिषु निधु-
बनेषु स्निग्धैर्मित्रैः खलः दग्धो नाशितः बुद्धेज्ञीनस्य विभवो माहात्म्यं येषां ते तादृशान्धनिकान्मु
ग्धान्मूढान् धिक् । तर्हि को वा धन्य इत्यत आह - भुवने लोके धन्यं कृतार्थ सैरिभं कासरमेक-
मेव मुख्यमेव धन्यं धनवन्तं मन्ये, नान्यं मनुष्यमित्यवधारणार्थः । अन्यैः सैरिभेतरैर्नृपै राजभिः
किं प्रयोजनम् ? तत्र हेतुमाह-
[-यः सैरिभः धान्यैर्धनैश्च स्वत्रमार्जितैर्जनान, सर्वोपकारक्षमः सर्वे-
बामुपकाराणां कृषिभारवहनशकटाकवर्णादिरूपाणां क्षमः शकः सन् रक्षति पालयति । तथा
शिश्नोदरपरायणान्मूढान्परित्यज्य सैरिभानुवर्तनमेव युक्तमित्यर्थः ॥ १३ ॥
मत्ता विचमदैर्दुराग्रहभृतश्चण्डाल रण्डासुता
येऽमी दुर्घनिका नितान्तपरुषव्याहार कौलेयकाः ।
तेषां वक्वविलोकनात्तव वरं स्थूलाण्डकोशेक्षणं
येन श्रीमहिषेन्द्र लभ्यत इह प्रायेण भृष्टाशनम् ॥ १७ ॥
मत्ता इति । वित्तमदैर्धनमदै: मत्ता: गर्विष्ठाः, दुराग्रहं अहमेव सर्वोत्तम इत्याग्रहमभि-
मानं बिभ्रतीति तथोक्ताः । चण्डालरण्डाया: नीचस्त्रियः सुता अपत्यरूपाः, संकरजातीया
इत्यर्थः । अन्यथा कथमेतादृशं ब्राह्मणद्रोहं कुर्युरित्यर्थः । येऽमी दुर्धनिका: अन्यायार्जितवित्तास्ते
दुष्टधनिकाः, नितान्तमत्यन्तं परुषव्याहारे कटुभाषणे कौलेयकाः शुनकाः; 'कौलेयकः सारमेयः
कुकुरो मृगदंशकः' इत्यमरः । श्ववत्कटुतरं भाषन्त इत्यर्थः । तेषां खलानां वक्त्र विलोकनान्मुख दर्श-
1. परित्यागेन