This page has not been fully proofread.

महिषशतकम्
 
धान्यं वाऽथ धनानि वा समधिकं कृत्वा मिथः स्पर्धया
मिथ्या साहसिनोऽभ्युपेत्य वृषला देशाधिकाराशया।
उत्कोचेन नृपान्ति कस्थितजनान्वश्यान्विधाय प्रजा-
सर्वस्वं प्रसभं हरन्ति च शठास्ते यान्तु कालान्तिकम् ॥ १३ ॥
 
धान्यमिति । धान्यं श्रीह्यादिकं धनं सुवर्णादिकं वा समधिकं कृत्वा अहमहमिकया शत-
भारपरिमित धान्योत्पादकक्षेत्रे शतद्वयपरिमितधान्यं प्रभूणां दास्यामीत्यादि प्रतिज्ञायेत्यर्थः । मिथः
परस्परं स्पर्धया कलहेन मिथ्यायां मिथ्यावादे साहसिनः साहसं हठात्कारं कुर्वन्तो वृषलाः देशाधि-
कारस्य राज्याधिकारस्याशयेच्छया उत्कोचेन गूढप्रदानेन नृपान्तिके राजसमीपे स्थितान्वर्तमाना-
जनान् लोकानभ्युपेत्य प्राप्य वश्यान्स्वाधीनान्विवाय कृत्वा प्रजानां विषयवासिजनानां सर्वस्वं धन-
धान्य वस्त्रादिकं प्रसभं हठात्कारेण हरन्ति गृहन्ति । ते शूद्रप्रायाः कालस्य यमस्यान्तिकं समीपं
यान्तु गच्छन्तु ॥ १३ ॥
 
चौर्य नाम कृषीवलस्य सहजो धर्मो ह्यवृश्यन्तरै-
बोलेषु द्विजसत्तमैरनुचिताऽप्यनीकृता सा कृषिः ।
तानेतान्वृषलाः शपन्त्यकरुणा ये दुःश्रवैर्भाषित-
ये वा तान्प्रहरन्ति तन्मुखकरं भूयात्कृमीणां पदम् ॥ १४ ॥
 
चौर्यमिति । कृषीवलस्य कृषिः कर्षणमस्ति यस्य स तादृशस्तस्य, 'रजःकृष्यासुति' इति
बलच् । 'बले' इति दीर्घः । कर्षकस्य चौर्य नाम धान्यतृणाचपहाररूपं सहजः स्वभावसिद्धो
वर्मः हि यस्मात्कारणाञ्चोलेषु चोलदेशेषु अवृत्त्यन्तरैर्वृत्त्यन्तररहितैर्द्विजसत्तमैर्ब्राह्मण श्रेष्ठैः अनुचिता-
ऽप्ययुक्ताऽपि सा कृषिरङ्गीकृता स्वीकृता । तस्मात्कर्षकस्य धान्यादिचौर्य स्वाभाविकमेवेत्यर्थः । कथ-
मन्यथा ब्राह्मणोत्तमाः कृषिं कुर्युरिति भावः । तानेतान्पूर्वोक्तद्विजोत्तमान् दुःश्रवैर्दुःखेनापि श्रोतु-
मशक्थैर्भाषितैर्निन्दित क्रूर शब्दैरकरुणा निर्दयाः सन्तो ये वृषला: शपन्त्यधिक्षिपन्ति, ये वा शूद्र-
प्रेरितास्तान्त्राह्मण श्रेष्ठान्प्रहरन्ति ताडयन्ति, तेषां क्रूराणां मुखकरम् अधिक्षेपसाधनं मुखं प्रहारसाधनं
करादिकं च । प्राण्यङ्गत्वादेकवद्भावः । कृमीणां कीटानां पदं स्थानं भूयादस्तु ॥
 
विद्य। जीवनकुण्ठनेन च कृषावालम्बितायां चिरा-
दा पक्के कणिशे कुतोऽपि पिशुनाः केदारमावृण्वते ।
हा किं वच्मि सुभाहवालुमणियं मेजुष्टहस्तान्तरं
हर्कारस्थल संप्रतीमुजुमुदादित्यादयो निर्दयाः ॥ १५ ॥
 
1. लोकान्तरम्