This page has not been fully proofread.

महिषशतकम्
 
1
 
ननु महिषस्तुत्या तेषां व्याजनिन्दाकरणे राज्ञां धार्मिकाणां तत्र रोष: स्यात्, तथा च
पण्डितेषु क्रोधाविशय एव स्यादित्याशङ्कय बुद्धिमतां राज्ञामेतत्प्रबन्धः संतोषायैव भवतीत्याह--
श्रुत्वेति चे गुणग्राहिण: सगुणपक्षपातिनो भूपाः, ते इमं महिषशतकप्रबन्धं श्रुत्वा कविमुखा-
त्कविमुख निर्गतश्लोकात् व्यङ्ग्यमयोदया ध्वनिमार्गेण, निजा: स्वीया ये दुर्गुणाः प्रजाहिंसाप्रदा:
तान्बुद्धा ज्ञात्वा, निजा आत्मीयाः प्रजा अपत्यानीव प्रजा विषयवासिनीः यथाधर्म धर्ममनतिक्रम्य,
वर्णाश्रमधर्माविरोधेनेत्यर्थः । रक्षितुं पालयितुं स्वकुलक्रमागतान् स्वकीयवंशपरम्पराप्राप्तान् देशस्य
राज्यस्याधिकारे पालने उचितान्योग्यान्कुर्वन्तु । अनेन राज्ञः प्रामाणिकत्वेऽपि तत्परिसरवर्तिनो-
अधिकारिण: खळा इति सूच्यते। तथा च राज्ञोडापे हितोपदेशरूपत्वान्नैतत्प्रबन्धे राज्ञो द्वेष इति
 
भावः ॥ ११ ॥
 
ननु राज्ञो गुणपक्षपातित्वे खलानां देशाधिकार: केन दत्त इत्याशङ्कय धार्मिकवेषेण
देशाधिकारं गृहीत्वा ब्राह्मणद्रोहे प्रवर्तमानान्खलान्न राजा जानातीत्याह-
-
 
राजा मुग्धमतिस्ततोऽपि सचिवास्तान्वयन्तः खला
देशद्रोहपराः सदैव वृषलाः सर्वापहारोद्यताः ।
 
आशां मा कुरु चोलदेशकृपये त्वं मैरिभातः परं
 
शिष्टं मे त्वलमल्लकं तदपि न भ्रातस्तवास्त्यन्ततः ॥ १२ ॥
 
राजेति । राजा नृपो मुग्धा मनोज्ञा मतिर्बुद्धिर्यस्य स तादृशः । ततोऽपि सदपेक्षयाऽपि
सचिवा अमात्या मुग्धमतय इति विपरिणतस्यानुषङ्गः । तान्राजतदमात्यादीन्वश्चयन्तः सर्वोत्तम-
घार्मिकवेषेण प्रतारयन्तः । अनेन राजतदमात्यानां मुग्धमतित्वात्तेषां सत्सङ्गे सति दुष्टान् दूरीकुर्युरिति
सूचितम् । खला दुष्टा देशद्रोहे राज्यक्षोभे परा उत्कृष्टाः सदैव सर्वदेव वृषलाः शूद्रप्रायाः, शूद्राळाप-
गावस्पर्श भोजनकाल संभाषणादिभिरिति भावः । सर्वापहारे प्रजासर्वस्वहरणे उद्यता उयुक्ताः, सन्तीति
शेषः । वश्चयन्त इत्यनेन खलै: प्रतारितेन राज्ञाऽधिकारो दत्त इति सूचितम् । हे सैरिभ, त्वं
चोलदेशे कृषिः कर्षणं तस्यै आशामिच्छां मा कुरु मा कार्षीः । कुत इत्यत आह - अतः परं खलाधि-
कारानन्तरं मे मम अन्ततः सर्वस्वनाशादलमल्लकं कौपीनं शिष्टम् । तदतिरिक्तं कृत्स्नमधिकारिभि
लुण्ठितमित्यर्थः । ' अलमल्लकं स्यात्कौपीनम्' इति निघण्टुः । हे भ्रातः सैरिभ, तब तदपि नास्ति
महिषस्य सर्वदा नग्नत्वारित्याशयः । अत्र 'सह्यसागरयोर्मध्ये श्रीकाश्ची से तुमध्यगः । हालास्य-
त्यागराजान्तचोलदेश इति स्मृतः ॥ इति ब्रह्माण्डपुराणोक्तचोलदेशो बोध्यः ॥ १२ ॥
 

 
खळकृत्यवर्णनपुरःसरं राजामात्य प्रतारणप्रकारमेव सभ्यनिरूपयम्खलान्निन्द त्येकादशभिः-
1. कथं स्यादित्यशङ्कष
MS. 2.