This page has not been fully proofread.

महिषशत
कम्
 
मन्यायार्जितवित्तानां शिष्टंमन्यदुर्विदग्धानां मूढानां राज्ञां चरितोपदेशरूपमेतत्प्रबन्ध प्रयोजनमाह-
यमिति । यं पुरुषं यो नरो रक्षति पालयति तस्य स रक्षकः प्रभुरिति हि यस्मात्कारणात्स्पष्टं
प्रसिद्धम् । तदिति शेषः, तस्मात्कारणात् मद्रक्षिणो मत्पालकान् राजश्रिया राजलक्ष्म्या युक्ता-
महिषान्महिषाख्य प्रभून्विनुत्य विशेषेण स्तुत्वा वाग्वैभवं साहित्य प्रागल्भ्यम्, अद्येदानीं सफलं स
प्रयोजनं कुर्वे करोमि। मत्पीडायां मदीयहिंसायां निरतान्प्रवृत्तान् मदीयमहिनो मत्प्रभावस्य यदभि
ज्ञानं परिचयः तेन शून्यान्रहितान्प्रभून्यन्निन्दामि तदूषणं निशम्य श्रुत्वा गुणविद: सद्गुणमाहिण:
सन्तः श्रेष्ठाः नृपा राजानस्तुष्यन्तु संतुष्यन्तु। अनेनेतद्वन्थप्रयोजनं दुष्टानां सन्मार्गप्रवृत्तिरूपं
दर्शितं बोध्यम् । अत्रापि निन्दायां हेतूपन्यासात्काव्यलिङ्गमलंकारः ॥ ९ ॥
 
कंचित्पश्चधमं लुलाय विगुणं कर्तुं प्रबन्धाञ्शतं
 
त्वामालम्ब्य समुत्सहे न खलु तद्द्वर्ण्यस्य माहात्म्यतः ।
मोहप्रवणाधिकारिहत कक्रोधेन तन्निन्दन-
व्याजात्तत्प्रभुतत्प्रभुष्वपि च वाग्दण्डो मया पात्यते ॥ १० ॥
 
ननु महिषस्य सर्वलोकनिन्द्यस्य स्तुतिरूप प्रबन्धकरणापेक्षया मुग्धानां प्रत्यश्नहितोपदेश
एव युक्त इत्यतो द्रोहप्रवणचित्तानां खलानां हितोपदेशो न फलिष्यतीत्याह – कंचिदिति ।
पशूनां चतुष्पदामधमं निकृष्टं विगुणं शोभनगुणहीनं त्वामालम्ब्य विषयीकृत्य शतं प्रबन्धान् शतं
श्लोकान्कर्तुं रचयितुं समुत्सद्दे संतोषयुक्तो भवामि । तत्प्रबन्धकरणं वर्ण्यस्य महिषस्य माहात्म्यतः
प्रभावाद्धेतोर्न खलु, संभवतीति शेषः। विगुणत्वपश्वधमत्वादिना वर्णयितुमयोग्यत्वादिति भावः ।
तर्हि किमिति प्रवृत्तिः १ अत आह- मद्रोद्दे मदीयाप्रकारे प्रवणो जागरूको योऽधिकारिहतक:
स्खलाधिकारी । तस्य निन्दनं दूषणमेव व्याजः, तस्मात्तत्प्रभुषु खलाधिकार्यपेक्षया किंचिदद्धिकेषु
तत्प्रभुषु तदपेक्षया किंचिदधिकेषु च दुष्टाधिकारिषु वाग्रूपो यो दण्डः शिक्षा मया पात्यते क्षिप्यते ।
मूर्खाणां हितोपदेशस्य सर्वथा दुष्करत्वात्साश्राद्धर्मोपदेशो न संभवतीति निकृष्टवर्णनद्वारेव खला:
सन्मार्गे प्रवर्तनीया इति भावः ॥ १० ॥
 
भुत्वेमं महिषप्रबन्धमिह ये भूपा गुणग्राहिण-
स्ते निजदुर्गुणान्कविश्व खात्तद्वयङ्गय मर्यादया ।
अद्रोहेण निजाः प्रजा इव यथाधर्म प्रजा रक्षितुं
 
कुर्वन्तु स्वकुलक्रमागत' नरान्देशाधिकारोचितान् ॥ ११ ॥
 
1. बरान्