This page has not been fully proofread.

महिषशतकम्
 
अभ्युदीक्षितोऽग्निहोत्रसो मयागादिनित्यनैमित्तिकानुष्ठाननिरतः षड्दर्शनीवल्लभः। ताविमौ महा-
पण्डितौ दृष्ट्वा विद्यायै न स्पृहये नेच्छामि। 'स्पृहेरीप्सितः' इति संप्रदानत्वम् । तयोर्याजनाभ्या-
पनशीलयोरपि दारिद्रयपीडितत्वादिति भावः । यद्यपि क्षात्रं क्षत्रवृत्तिः प्रजापालनराज्यसंपादनादि
वरं श्रेष्ठम् । तत्र संपत्समृद्धया जीवनं भवतीति भावः । तथाऽप्याहवायुद्धात् बिभेमि भयं प्राप्नोमि ।
'भीत्रार्थानां भयहेतुः' इत्यपादानत्वम् । तर्हि निर्भयत्वाद्वाणिज्यं कार्यमित्याशङ्कचाह-वाणिज्य-
मिति । वाणिज्यं मूल्येन क्रयविक्रयद्रव्यसंप्रयोगादिकं धर्मशास्त्र प्रसिद्धं निरुपद्रवमिति शेषः ।
तत्रापि स्वस्याप्रवृत्तिहेतुमाह- घनमूल कमिति । धनं सुवर्णादिकं मूलं मूलकारणं यस्य तत्तादृशम् ।
अनेन स्वस्य धनसंपत्त्यभावेन तन्न युज्यत इति सूच्यते । तत्तस्मात्कारणात्, अखिलं पूर्वोक्कं
विद्याक्षात्रवाणिज्यादिकं त्रैवर्णिक मुख्यधनागमनिमित्तं त्यक्त्वा त्वां लुलायप्रभुमाश्रितः, नाम्यद्विया-
दिकमिति भावः । लुलायाश्रयेण किं भविष्यतीत्यत आह - हे लुलायप्रभो, त्वं विद्या विद्याकार्य-
कारी, विद्याशब्दस्य विद्याकार्ये लक्षणाङ्गीकारात्। त्वमेव धनं, धनकार्यसुखादिका रिश्वात् ।
सकलं क्षात्रवृत्यादिकमपि त्वमेवेत्यर्थः । क्षात्रवृत्यादौ भयमुपपाद्य त्वमेव सर्वकार्यकारीत्युक्त्या
महिषमूलक कृष्यादौ भयादिदोषप्रसक्तिनास्तीत्याशय आविष्कृतः । तथा च विद्यार्जनस्य मुख्यस्था-
संभवानीचवृत्तिरपि कृषिराश्रयणीयेति भावः ॥ ६ ॥
 
विद्यापण्य विशेषविक्रय वणिग्जातः सुधीः श्रीधरः
स्वनं स्वर्णमभूद्ध ताम्बुमखिनो धिक्तस्य षड्दर्शनीम् ।
ख्यातः 'कुट्टिकविस्तु दुर्घनिगृहद्वारेषु निद्रायते
 
तत्वं महिपेश्वराननुसृतेर्भाग्यधाम्नः फलम् ॥ ७ ॥
पूर्वश्लोकप्रतिपादितविद्याजीवनासंभवमेव स्पष्टयति -- विद्येति । श्रीधरः श्रीधराख्यः
सुधीः पण्डितः, विद्या वेदादिः, सैव पण्यं ऋथ्यं वस्तु, तस्य विशेषविक्रयेण द्रव्यदानानुरूपाभ्या-
बनेन; येन बहु द्रव्यं दीयते स बह्नध्याप्यते, येन त्वल्पं स त्वल्पमध्याप्यत इति विशेषविक्रयपद-
सूचितार्थः । वणिग्वैश्यो जातः संपन्नः, वाणिज्यस्य वैश्यधर्मत्वादिति भावः । अम्बुमखिनः
अम्बुदीक्षितस्य स्वन्नं सुष्टु अन्नं शाल्योदनादिकं स्वर्ण काञ्चनमभूत् । तस्याम्बुमखिनः षड्दर्शन
पण्णां दर्शनानां समाहारः षड्दर्शनी तां धिक्, यद्भोक्तनन्नमपि दुर्मिलं किं तस्य षड्दर्शन्येति
भावः । तत्सहाध्यायिनः स्वस्य दशामाह- कुट्टिकविः स्वयं दुर्घनिनां दुष्टधनिकानां गृहद्वारेषु बहिः-
प्रदेशेषु निद्रायते स्वपितीति ख्यातः । तत्सर्वं त्रयाणामध्येतादृशं दुःखं दौर्भाग्यस्य दारिद्रयस्य घानः
 
1. सुधीस्तु