महिषशतकम् /18
This page has not been fully proofread.
महिषशतकम्
ये दद्वंशपरम्पराक्रमवशात्सम्याः समभ्यागता-
स्ते सन्तु प्रथमानमानविभवा राज्ञां कटाक्षोर्मिभिः ॥ २ ॥
एवं मङ्गलं कृत्वा स्वोपजीव्यराजपरम्पराया आशिषं प्रार्थयते - य इति । सूर्यस्य रवेः,
इन्दोश्चन्द्रस्य, यो वंशः अन्ववायः स उपमा यस्य सः तादृशः तस्मिन्, विमले निष्कलङ्के,
अत्रास्मिन् प्रसिद्धे, भोसलकुले भोसलसंततौ, ये राजानो जाताः प्रादुर्भूताः ते राजानः, शिवानु-
महात् इति पूर्वश्लोकस्थस्थानुषङ्गः । चिरं जीवन्तीति तादृशाः, सुखमेषामस्तीति तथोक्ताः, संतान
पुत्रपौत्रादिः एषामस्तीति तथोक्ताः सन्तु भवन्तु एवं राज्ञामाशिषं संप्रार्थ्य तद्मात्यानामध्या-
शिषं प्रयुङ्के -- य इति । तद्वंशस्य भोसलवंशस्य परम्परायाः यः क्रमः पौर्वापर्यं तद्वशात तदनुरोधात्
अस्यायममात्यः, तत्पुत्रस्य तद्मात्यपुत्रः सचिवः, तत्पुत्रस्य तत्पुत्र इति रीत्येत्यर्थः । ये सभ्याः
सभासदः समभ्यागताः ते अमात्याः, राज्ञां कटाक्षा ऊर्मय इव तरङ्गा इव; 'भङ्गस्तरङ्ग ऊर्मिर्वा'
इत्यमरः । कटाक्षोर्मयः, तैः, प्रथमानौ वर्धमानौ मानविभवौ संमाननैश्वर्ये येषां ते तादृशाः
सन्तु । अनेन स्वस्यापि राजामात्य परम्परान्तर्गतस्य प्रथमानमानविभवत्वं प्रार्थितमिति सूचितम् ।
अत्र विमल इति विशेषणाद्वाजकुलस्य चतुर्दशराजदोषरहितत्वं प्रतिपाद्यते । सूर्येन्दुवंशसादृश्या-
द्राज्ञां धार्मिकत्वपराक्रमित्वादयो गुणा व्यज्यन्ते । कटाक्षोर्मिभिः इत्यत्र कटाक्षाणां ऊर्मिसादृश्य-
प्रतिपादनात् उपमालंकारः । तेन च कटाक्षाणां सभ्येषूत्तरोत्तरमाधिक्यं व्यज्यत इत्यलंकारेण वस्तु-
ध्वनिः । 'तद्वंशपरम्पराक्रमवशात् सभ्याः' इत्यनेन सभ्यानामपि संतानवृद्धिर्व्यज्यते । तेषां
सभ्यपदेनोपादानाद्वेदशास्त्रसंपत्तिरात्मगुणसंपत्तिश्च ध्वन्यते । यथाऽऽह याज्ञवल्क्य: - 'श्रुताध्य-
यनसंपन्नाः सप्त पञ्च त्रयोऽपि वा। राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥' इति । न
चास्य व्यवहारप्रकरणस्थत्त्राद्वयवहारपरिच्छे तृविषयत्त्रं मन्तव्यम्, सर्वत्रापेक्षितस्य प्रकरणलाघवेन
एकत्र प्रतिपादितत्वात् ॥ २ ॥
OFFE
नानाजिप्रभुचन्द्रमानुशहजीन्द्रा नन्दरायादयो
विद्वांसः प्रभवो गताः श्रितसुधसंदोहजीवातवः ।
विद्यायां विषबुद्धयो हि वृपलासभ्यास्त्विदानीतनाः
किं कुर्वेऽम्ब कृषे व्रजामि शरणं त्वामेव विश्वावनीम् ॥ ३ ॥
स्वस्य महिषप्रबन्धकरणे निमित्तं वदन् तदुपोद्धाततया आदौ कृषि प्रशंसति-
नानाजीति। नानाजि: धार्मिक श्रेष्ठः अमात्यः, प्रभुचन्द्रभानू राजा, शहजीन्द्रः प्रख्यातो राजा,
आनन्दरायस्तदमात्यः प्रसिद्धः, पते आदयो मुख्या येषां ते एतादृशाः, विद्वांसो ज्ञानिषेशः,