महिषशतकम् /17
This page has not been fully proofread.
महिषशतकम्
पाद्याद्वितीयात्मप्रतिपादनद्वारा निःश्रेयसोपयोगितां तत्र तव प्रकटयिष्यन्महिषप्रबन्धाख्यं महाकाव्यं
चिकीर्षुश्चिकीर्षितान्तरायनिरन्तरोपशान्तिचिरंतन व मागत संप्रदायानुवृत्तिलक्षणफलसाघनत्वात् 'आ-
शीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वादाशीर्निर्देश-
मुखेन प्रबन्धतात्पर्यविषवीभूतमर्थं संगृह्णाति-स्वस्तीति । शिवस्य परमेश्वरस्य अनुग्रहात् प्रसादात,
समस्तं सकलं जगत भुवनं तस्मै, प्रथमं आदौ, स्वस्ति कल्याणम, अस्तु भवतु । 'नमःस्वस्ति'
इत्यादिना चतुर्थी गुणानां शमदमादीनां स्तोमतः संघतः, शस्ताः श्रेष्ठाः सन्तः साधवः ये निवस-
न्ति वर्तन्ते तेऽमी सन्तः शिवानुमहात् इत्यनुषङ्गः । एवमग्रिनवाक्यद्वयेऽपि बोध्यम् । सुखिनः
शर्मिंणः सन्तु भवन्तु । धर्मिष्ठे धर्मप्रधाने पथि मार्गे अवनिपा: भूपाः संचरन्तु प्रवर्तन्ताम् ।
तेषां अवनिपानां ये मन्त्रिणः सचिवाः ते दीर्घायुषः चिरजीविनः सुमनसः कोमलचित्ताः,
आदृत: अङ्गोकृतः धर्मस्य सुकृतस्य उपदेशः ज्ञापनं वैसे धर्मोपदेशादृताः । 'बाऽऽहिताग्न्यादिषु '
इति परनिपातः । सन्तु भवन्तु । अत्र समन्तजगतः स्वस्तिप्रार्थनया स्वस्यापि तदन्तःपातिनः
चिकीर्षितग्रन्थपरिसमाप्तिरूपाभिलषित प्राप्तिरपि प्रार्थिता भवति । तथा अविशेषेण सर्वप्राणिसंबन्धि
स्वस्तिप्रार्थनया 'विद्याविनयसंपन्ने' इत्यादिभगवद्वचनोक्तद्वेष्यप्रिय साधारण समत्वरूप ब्रह्मनिष्ठत्व-
गुणः कवेर्व्यज्यते। द्वितीयपादेन च सतां निरस्त दुरितानां श्रेयो मात्र प्रार्थनाया अकिंचित्कर-
त्वान्निरतिशयानन्दरूपपरमपुरुषार्थ प्राप्तिरेव प्रार्थनीयेति व्यच्यते । एवं पूर्वार्धेन प्रार्थितार्थस्य
राजाधीनत्वाद्राज्ञो मतिभ्रंशे सति जगतां कल्याणाप्रस के स्तपःस्वाध्यायादिलोपेन साधूनामपि
तन्मूलकसुखातिशया प्रसक्तेः तदुभवसिद्ध्यर्थं तृतीयपादेन राज्ञां धर्मप्रवणता प्रबन्धपरमतात्पर्य -
विषयीभूता प्रार्थितेति ज्ञेयम् । राज्ञां धर्मिष्ठत्वमपि सचिवाधीन मिति तेषामैकमत्येन धर्मद्रष्टृत्वा
भावे राज्ञस्तदनुपपत्तेश्चतुर्थपा देनामात्यादीनामेव बह्वाशी: प्रार्थनमिति द्रष्टव्यम् । अत्र पूर्वार्धे 'शस्ता
गुणस्तोमतः' इति वाक्यार्थस्य सुखप्राप्तिहेतुत्वात्, उत्तरार्धे धर्मोपदेशाहतपदार्थस्य दीर्घायुहेतु-
त्वाच वाक्यार्थहेतुकं पदार्थहेतुकं च काव्यलिङ्गमलंकारः । तथा सकारतकारावृत्तिरूपव्यञ्जनानु.
प्रासस्य स्पष्टत्वात्तथा सं समिति स्वरानुप्रासवशाच च्छेकानुप्रासलाटानुप्रासावपि शब्दालंकारौ ;
तथा निर्दोषत्वं सगुणत्वं च बोध्यम् । तथा च 'काव्यं ह्यदुष्टौ सगुमौ शब्दार्थों सदलंकृती' इति
काव्यसामान्यलक्षणस्य 'वाच्यातिशायि व्यङ्ग्यं यदुत्तमं तद्भुनिश्च सः' इत्युत्तम काव्यलक्षणस्य
च संपत्तिः सुलभैवेत्यस्मत्कृत श्लेषार्थ चन्द्रिकायां विस्तरः । अस्मिन्प्रबन्धे शार्दूलविक्रीडितं वृत्तम्,
'सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥ १ ॥
ये जाता विमलेन मोलकुले सूर्येन्दुवंशोपमे
राजानविरजीविनय सुखिनस्ते सन्तु संतानिनः ।